समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 719, कुल 726 में से
संदर्भ में पढ़ें६५८ समराङ्गणसूत्रधारे
(चे$^१$)ष्ट्याङ्गेन हस्तेन प्रयोगः सत्त्वकैरपि ।
गण्डोष्ठे$^२$नासापार्श्वोरुपौदच(चा)रा(म्भैं ?)दिभिस्तथा ॥ २१९ ॥
यथा यथा प्रतीतिः स्यात् प्रयतैत तथा तथा ।
कृतानुकरणं ++++++++++ ॥ २२० ॥
लक्षणं वृ(नृ)त्तहस्तानामिदानीमभिधीयते ।
चतुरश्रौ तथोद्वृत्तौ स्वस्तिकौ विप्रकीर्णौ (र्णकौ) ॥ २२१ ॥
(पद्मकोशाभिधानौ) चाप्यरालखटकामुखौ !
अ(आ)विद्धवक्त्रकौ (सूचीमुद्धरेविव ?)संज्ञकौ ॥ २२२ ॥
अर्धरेचितसंज्ञौ तु तथैवोत्तानवञ्चितौ ।
पल्लवाक्षो(ख्यौ) ('निरावोऽथ?) केशबन्धौ लताकरौ ॥ २२३ ॥
करिहस्तौ$^{१०}$ तथा पक्षवञ्चिताक्षौ (ख्यौ) ततः (परम्) ।
(पक्षे$^{१२}$ प्रद्योतकरेण्याच ?) तथा गरुडपक्षकौ ॥ २२४ ॥
ततश्च दण्डपक्षाख्यावूर्ध्वमण्डलिरौ$^{१३}$ ततः ।
पार्श्वमण्डलिनौ तद्वदुरोमण्डलिनावपि$^{१४}$ ॥ २२५ ॥
अनन्तरं करौ ज्ञेयावुरःपार्श्वार्धमण्डलौ ।
मुष्टिकस्वस्तिकाख्यौ च नलिनीपद्मकोशकौ ॥ २२६ ॥
ततश्च कथितौ हस्तावलपल्लवकोल्बणौ ।
ललितै। वलितप(ता)ख्यावित्येकोनत्रिंशदीरिता$^{१५}$ ॥ २२७ ॥
पुरस्ताद् वक्षसा(सो)हस्तौ प्रदेशेऽष्टाङ्गुले स्थितौ ।
समान(कूर्परशौ$^{१६}$?) तु संमुखौ खटकामुखौ ॥ २२८ ॥
चतुरश्राविति प्रोक्तौ$^{१७}$ वृत्तहस्तविशारदैः ।
इति चतुरश्रौ$^{१८}$ ॥
तावेव हंसपक्षाख्यौ व्यावृत्ता$^{१९}$परिवर्तनात् ॥ २२९ ॥
१ द. चेष्टायां । २ द. ण्डोष्ठा । ३ द. पदे । ४ द. च भ दिं । ५ द. चालप्य । ६ द. सूचीमुखौ
रेचितं; मुद्रितपुस्तके 'सूचीमुखरेचित' इति स्यात् । ७ द. च । ८ मु. पु. 'करौ चाथ' इति स्यात् ।
९ द. न्धो । १० द. स्तो । ११ द. तौ क्षौ करौ ततः । १२ मु. पु. 'पक्षप्रद्योतकौ चैव' इति स्यात् ।
१३ द. पूर्व । १४ द. द । १५ 'प्रदर्शितक्रमेणाष्टाविंशतिरेवोपलभ्यते । १६ मु. पु. 'कूर्परासौ' इति स्यात् ।
१७ द. क्रा वृ । १८ इत उपरि उद्वृत्तस्वस्तिकयोर्विविक्तं लक्षणमादर्श लुप्तमिति भाति । १९ द. त्त ।