सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 716, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 716

पताकादिचतुष्षष्टिसस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६२९
त्रयोदशार्थं कथ्यन्ते संयुता नामलक्षणैः ।
अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ १९२ ॥
खॅटको(का) वर्धमानश्चाप्यस(प्युत्स)ङ्गनिषधावपि ।
डोलः पुष्पपुटस्तदूनन्मकरो गजदन्तकः ॥ १९३ ॥
(वैरित्वादश कथ्यन्ते संयंता नामलक्षणैः ।
अँञ्जलिश्च कपोतस्यं कर्कटः स्वस्तिकस्तथा ?) ॥ १९४ ॥
त्रयोदशैते कथिता हस्ताः संयुक्तसंज्ञिताः ।
पताकाभ्यां तु हस्ताभ्यां संश्लेषात् सोऽञ्जलिः स्मृतः ॥ १९५ ॥
शिरश्च विनतं किञ्चित् तत्र कार्यं विपश्चिता ।
कार्यो गुरुनमस्कारो मुखस्यासन्नवर्तिना ॥ १९६ ॥
(पेक्षते न ?) मित्राणां न स्थाननियमः (क्रुंधे ?) ।
इत्यञ्जलिः ॥
उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसङ्ग्रहः(ह्यात्) ॥ १९७ ॥
(स ?) हस्तः कपोतनामो (स्यात्) कर्म चास्याभिधीयते ।
(कुर्यात् प्रणमनं) वक्षःस्थितेन (तु) (न) मच्छिराः ॥ १९८ ॥
गुरुसंभाषणं कुर्यात् स्त(ते)न शीतं भयं तथा ।
विनयस्याभ्युपगमे चायमित्यभिधीयते ॥ १९९ ॥
(ते)नैवाङ्गु(लि)संघृष्यमाणमुक्तेन पाणिना ।
(ऐतान् वदति ?) नेदानीं कृत्यंधो(चे)ति प्रदर्शयेत् ॥ २०० ॥
(एवंरूपो पमे च रूपेण ?)
( इति कपोतः ॥ )
अङ्गुल्यो यस्य हस्तस्यान्योन्याभ्यन्तरनिःस्रुताः ।
स कर्कट इति ज्ञेयः (करः) कर्मास्य कथ्यते ॥ २०१ ॥
१ द. य । २ द. व्यञ्जालिश्च कद्यन्तश्च कर्टटः स्तशिकं । ३ द. खे । ४ द. दो । ५ द.
बहिरस्थो दशा कं ; मुद्रितपुस्तके अयं श्लोकोऽशुद्धः पुनरावर्तितश्च । अस्य स्थाने 'अवहित्थाभिधानश्च
वर्धमानस्तथापरः' इत्येवजातीयमेकमर्ध निवेशनीयम् । ६ द. अञ्ज । ७ द. श्र । ८ द. दङ्गं । ९ मुद्रित
पुस्तके 'वक्षःस्थितेन' इति स्यात् । १० मु. 'क्रियाः' इति स्यात्; 'वक्षःस्थश्चैव मित्राणां स्त्रीणां
कार्यो यथेप्सितः' इति नाट्यशास्त्रे दर्शनात् । इह प्रपन्नन्तस्य 'नमस्कारे' इति प्रक्रमागतसप्तम्यन्तेन
सम्बन्धो ज्ञेयः । ११ द. म । १२ मु. पु. 'एतावदिति' इति स्यात् । १३ द. स्त्र ।