समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 710, कुल 726 में से
संदर्भ में पढ़ेंपताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६४९
( स्याच्छत्रयलाभेने तिर्यगुक्ति पूर्व्वाक्षे पातने ? ) ।
स्वेदापमार्जने कार्योऽधोमुखस्तत्प्रदेर्यु( शग )ः ॥ १३२ ॥
कुँद्ध( कुद्द )मिते ( संचलितः कर्तव्योऽ )धोमुखश्च सः ।
( अस्यानुयायिनी दृष्टिः पाणी कुर्याद् भवापि ?) ॥ १३३ ॥
इति मृगशीर्षकः ॥
त्रेताग्निसंस्थिता मध्यात्तर्जन्यङ्गुष्ठका मता( : ) ।
काङ्गुलेऽनामिका वक्रा तथाचोर्ध्व( र्ध्वा ) कनीयसी ॥ १३४ ॥
( त्रेतोत्तनेन ) कर्कन्तु( न्धू )प्रभृतीनि प्रदर्शयेत् ।
तरुणानि फलान्यन्यद् वस्तु किञ्चिच्च यल्लघु ॥ १३५ ॥
वाक्याना( न्य )ङ्गुलिविक्षेपैः स्त्रीणां रोषकृतानि च ।
मुक्तामरकतादीनां ( रत्नानां ) च प्रदर्शनम् ॥ १३६ ॥
हस्तेनानेन कर्तव्यं भ्रुवौ ( चोस्पृष्टदृगे ? ) ।
इति काङ्गूलैः ॥
आवर्तिन्यैः करतले यस्याङ्गुल्यो भवन्ति हि ॥ १३७ ॥
पार्श्वागता विकीर्णाश्च सोऽलर्पद्मः प्रकीर्तितः ।
तिर्यक् पुरःस्थितः कार्यो हस्तोऽयं प्रतिषेधने ॥ १३८ ॥
कस्य त्वमिति नास्तीति वाक्ये शून्ये च धीमता ।
आत्मोपन्यसने स्त्रीणां ( नै सन्देशोच्चेतो ? ) भवेत् ॥ १३९ ॥
अस्य चानुगता दृष्टिर्विधातव्या भ्रुवौ तथा ।
इत्यलपद्मः ॥
अङ्गुल्यः प्रसृतास्तिस्रस्तथाचोर्ध्व( र्ध्वा ) कनीयसी ॥ १४० ॥
१ मु. पु. 'स्याच्छन्नालम्भने तिर्यगुक्तिक्षेत्राक्षपातने' इति स्यात् । २ द. ˚क्षा । ३ द. य ।
४ द. कार्यः कु˚ । ५ मु. 'अस्यानुयायिनी दृष्टि पाणेः कुर्याद् ध्रुवावपि' इति स्यात् । ६ द. णे ।
७ द. वपि । ८ द. र्त । ९ द. ˚ता । मुद्रितपुस्तके 'तेनोत्तानेन' इति स्यात् । १० द. निः ।
११ द. घुः । १२ द. वास्प । मुद्रितपुस्तके 'चोत्सृष्टदृष्ट्ये' इति स्यात् । १३ द. कः । १४ द. न्या ।
१५ द. छद्म । १६ मुद्रितपुस्तके 'सन्देशे चोच्छ्रितो' इति स्यात् । १७ द. शाच्छतो । १८ द. स्या ।
१९ द. सृ ।
ना. ८२