समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 700, कुल 726 में से
संदर्भ में पढ़ेंपताकादिचतुष्षष्ठिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः । ६३९
पक्षोत्क्षेपक्रियां नित्यं वक्त्रेण विकृतेन च ।
उत्तानितेन वामेन ^१विधुतेने^२तरेण तु ॥ ३३ ॥
पुरःप्रसर्पिणाधौतं ^३हस्तानुगतदृष्टिना ।
निर्घृष्टतलहस्तेन भ्रुकुट्या मृदितं पुनः ॥ ३४ ॥
प्रघृष्टमेकरूपेण द्वितीयेन ^४प्रसर्पता ।
(तेन ?) स्योपरि हस्तेन निविष्टेन विधीयते ॥ ३५ ॥
(अन्योन्य) घर्षणात्ये^६ (त् पि)^८ष्ठं भ्रुकुट्या च (प्र) दर्शयेत् ।
पार्श्वस्थितेन शैलेन्द्रं ^९दूरविस्फारितेन च ॥ ३६ ॥
प्रदर्शयेत् समुत्क्षिप्य (मोमां^१० ?) भ्रूलतिकां शनैः ।
शैलधारणमन्योन्यश^११(स)क्तेनाभिमुखेन च ॥ ३७ ॥
पार्श्वयोः सम्प्रवेश्याधः^१२ कृक(त)^१३ भ्रुकुटिना ततः ।
कार्यमुत्क्षिप्यमानेन शैलप्रोत्पाटनं^१४ तथा ॥ ३८ ॥
शिरःप्रदेशसंस्थेन दूरमुत्तानितेन च ।
समुन्नतभ्रुवा कार्या पर्वतोद्धरणक्रिया^१५ ॥ ३९ ॥
इति पताकहस्तः ॥
पताके तु यदा वक्रानामिका त्वङ्गुलिर्भवेत् ।
त्रिपताकः स विज्ञेयैः^१६ कर्म चास्याभिधीयते ॥ ४० ॥
(अयं + + अवि ?) चलनमध्यौ^१७कनिष्ठिकः ।
अंत्रोहेन^१८ विधातव्यो नंतु^१९(त) मूर्ध्ना तथा मनाक् ॥ ४१ ॥
उन्नामेन समुत्क्षिप्तपुमा^२० (रो) भागेन चामुना ।
नमता शिरसा कुर्यात् तथा च (व) तरणक्रियाम् ॥ ४२ ॥
पार्श्वतः स्र्पता^२१ कार्यममुनैव विसर्जनम् ।
पराङ्मुखैखाना^२२(रयोग्न ?) भ्रुकुटिं विरचय्य वा ॥ ४३ ॥
१ द. °क्षोक्षिं° । २ द. नि । ३ द. °ते° । ४ द. र्घृ । ५ द. पृ । ६ द. यै । ७ द. र्ध्वप्रस° ।
८ द. त्पि । ९ द. °न्द्र । १० द. मामां; मुद्रितपुस्तके मनाग ' इति स्यात् । ११ द. न्या° ।
१२ द. स्या° । १३ द. प्रतौ नास्ति । १४ द. °लेंद्रोत्पा° । १५ द. पर° । १६ द. यं ।
१७ द. ध्य । १८ द. अत्रा° । १९ द. तनु । २० द उत्तानेन समुत्क्षिप्यपुमां । २१ द. पर्व ।
२२ द, °खो नारयोग्ने भ्र° ।