सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 696, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 696

रसद्दष्टिलक्षणं नाम व्यशीतितमोऽध्यायः । ६३५
म्लानभ्रूपुटपक्ष्मौ¹ या शिथिला म॑न्द²चारिणी ।
(क्लौम³ ?) प्रविष्टतारा च विह्वला (ताँमला⁴ ?) स्मृता ॥ २७ ॥
किञ्चिच्चला स्थिरा किञ्चिदुत्ताना तिर्यगायता ।
मूढा(ढा) चकिततारा च शङ्किता दृष्टिरिष्यते ॥ २८ ॥
आनिकुञ्चितपक्ष्मौ⁵ या पुटैराकुञ्चितैस्त(तात)था ।
(सत्रिजन्त + ?)तारा च कुञ्चिता दृष्टिरुच्यते ॥ २९ ॥
लम्बिता(र्ध)पुरा(टा)⁷ ⁸+ + तिर्यग्रूक्षेक्षणा शनैः ।
निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ॥ ३० ॥
ऋजुतारा राज(ऋजु)पुटा प्रसन्ना रागवर्जिता ।
त्यक्तादरा च विषये मध्यस्था दृष्टिरुच्यते ॥ ३१ ॥
समतारा समपुटा समभ्रूविकारिणी ।
(उपगारा ?)विहीना च स्थिरा दृष्टिः प्रकीर्तिता⁹ ॥ ३२ ॥
हस्तेन सूचयन्नर्थं दृष्ट्या च प्रतिपादयन् ।
सजीव इति दृश्येत सर्वाभिनयदर्शनात् ॥ ३३ ॥¹⁰
आङ्गिके¹¹ चैव चित्रे + + + साधनमुच्यते ।
(भवेदन्त्रादैत¹² ?)स्तस्मादनयोश्चित्रमाश्रितम् ॥ ३४ ॥
दृष्टिः ॥
प्रोक्तं रसानामिदमत्र लक्ष्म दृशां च सांक्षिप्ततया तदेत्ये¹³(त्) ।
(¹⁴विज्ञेयचित्रालिखनान्तराणां ?) न संशयं याति मनैः¹⁶ कदाचित् ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
रसद्दष्टिलक्षणाध्यायो नामैका(मद्य)शीतितमः ॥
१ द. क्षा । २ द. ॰ला या मन्द॰ । ३ द. क्लम । ४ द. तामसा; मुद्रितपुस्तके ‘नाम सा’
इति स्यात् । ५ द. पद्माग्रा । ६ द. ॰तैस्तथा । ७ द. पुरा । ८ द. यू । ९ द. ताः । १० द. इतः
पूर्वं ‘ऊर्ण नाभस्ताभ्रचूल इत्येषा चभुरन्विता । हस्तानां विंशतिस्तेषां लक्षणं कर्म चोच्यते ॥ प्रसारिताग्राः
सहिता यस्याङ्गुल्यो भवन्ति हि । कुञ्चितश्च तथाइङ्गुष्ठः स पताक इति स्मृतः ॥ उत्क्षिप्तेन शिरोयाल्याणि-
नामेरूसा पुनः । न तेन वामतः किंचिद्भ्रुकुटी कुटलभ्रुवा ॥ स्तोक विस्फारिताक्षेण प्रहारमभिनिर्देशेत् ।
प्रतानं तथोद्भूतो नारसोग्रगजे ॥’ इत्यधिकः पाठः । ११ द. क । १२ द. दृ । १३ द. ते । १४ मुद्रित
पुस्तके ‘विज्ञाय चित्रं लिखतां नराणां’ इति स्यात् । १५ द. ॰खिलं॰ । १६ द. न । १७ द. प्रतौ नास्ति ।