सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 690, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 690

वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः । ६२९
इति सर्वेषु ज्ञेयं गमनस्थानेषु संस्थानम् ।
(गोत्राणां मध्येषां ? ) विदधीत बुधैः स्थितिं यथायोगम् ॥ ३४ ॥
(विन्यासयोषणक्षिप्तण ? ) दृष्टिहस्तादिविनिवेशैः ।
अ(थ) स्थानचतुष्कस्य प्रविच्छन्दककीर्तनात् ॥ ३५ ॥
अन्या अपि क्रिया लेख्याः सम्भवन्तीह या नृणाम् ।
शिष्याणां प्रतिपत्त्यर्थं सूत्राणि त्रीणि पातयेत् ॥ ३६ ॥
ब्रह्मसूत्रम॑भे(गते) सूत्रे ये च पार्श्वे(श्वे)समाश्रये ।
ऊर्ध्वानि त्रीणि सूत्राणि स्थानकेष्व(भिक्ष्वपि ?) ॥ ३७॥
कुर्वीत तेषु मध्ये यद् ब्रह्मसूत्रं तदुच्यते ।
भित्तिके पुनरन्यस्य भागस्यापेक्षया मतम् ॥ ३८ ॥
पार्श्वस्ति(स्थं) ब्रह्मसूत्रं स्यात् कार्यतो मध्यगं हि तत् ।
ये द्वयोः पार्श्वयोः सूत्रे ६++++ हि ते स्मृते ॥ ३९ ॥
प्रदेशावयवस्यात्र निष्पत्त्यै यद्यदीप्सितम् ।
तत्र सूत्रं विधातव्यं तिर्यगूर्ध्वानुसारतः ॥ ४० ॥
अपेक्षेतानि(?) यावन्ति प्रत्यङ्गव्यक्तिसिद्धये ।
तावन्त्यवयवव्यक्तिसिद्धयै तिर्यङ् नियोजयेत् ।
ऊर्ध्वानि त्रीणि सूत्राणि तिर्यङ्गा(ना)नुसारतः ॥ ४१ ॥
स्थानानि वैष्णवमुखान्युदितानि सम्यक्
(त्रिंमंगितडिते ?)गमनैरुपेतैः ।
सूत्रस्य पातनविधिश्च यथावदुक्तो
ज्ञाते (न ?) भवेत् तदिह सूत्रभृतां वरिष्ठः ॥ ४२ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे
वैष्णवादिस्थानकलक्षणाध्यायो नामैकोना(मा)शीतितमः ॥


पादटिप्पणी (Footnotes):
१ मुद्रित पुस्तके 'सूत्राणामन्येषां' इति स्यात् । २ द. घ । ३ द. ति । ४ द. सुमे ।
५ द. श्वे । ६ द. पार्श्वसूत्रे । ७ द. क्षि । ८ द. गं । ९ द. ता । १० द. द्र । ११ द. इतः पूर्वं
परमेश्वर इत्यधिकः पाठः । १२ द. णो । १३ द. न ।