समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 652, कुल 726 में से
संदर्भ में पढ़ेंअथाऽण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः । ५९१
अर्धगोलकमायामादलसाण्डकमुच्यते ।
नवगोलकदैर्घ्यं तदंशाहासमुखं (?) भवेत् ॥ ७ ॥
पुंसां षडादात्तं(यतं) मानं विस्तारात् पञ्चगोलकम् ।
वनिताण्डकमालेख्यं नालिकेरफलोपमम् ॥ ८ ॥
चतुर्गोलकविस्तीर्णमायतं पञ्चगोलकान् ।
शिशूनामण्डकं तावत् कर्तव्यं चित्रकर्मणि ॥ ९ ॥
(हास्योभिः प्रस्रवेत् ?) तस्य गोलकार्धान् विशेषयेत् ।
आलस्याण्डकमप्येवं रोदनं तद्वदेव तु ॥ १० ॥
षड्गोलक(प्र)विस्तारमार्यतं सप्तगोलकम् ।
राक्षसस्याण्डकं कुर्याच्चन्द्रमण्डलसन्निभम् ॥ ११ ॥
(हास्यौभिप्रस्तवे ?) तस्य गोलकार्धान् विशेषयेतं ।
देवाण्डकं प्रमाणेन तदालस्येऽत्र कीर्तितः (?) ॥ १२ ॥
षड्गोलक(प्र)विस्तारं गोलकाष्टकमायतम् ।
(वृत्तांया ?) समालेख्यं दिव्याण्डकमिति स्मृतम् ॥ १३ ॥
अथाभिधीयते दिव्यमानुषाण्डव(क)(वि ?)लक्षणम् ।
गोलकार्धाधिकं भे(त)च्च कार्यं मानुषमानतः ॥ १४ ॥
पञ्चगोलकविस्तीर्णं षड्गोल(सेर्कमायुतम् ?) ।
मुखाण्डं मानुषं कृत्वा (केत्तरस्य ?) विधीयते ॥ १५ ॥
शिशुकाण्डकमानेन प्रमथानां मुखाण्डकम् ।
राक्षसाण्डकमानेन यातुधानाण्डकं भवेत् ॥ १६ ॥
दानवस्याण्डकं कुर्याद् देवानां वदनोपमम् ।
गन्धर्वनागयक्षाणां तद्वद्देवाण्डकं भवेत् ॥ १७ ॥
१ द. °दूहा° । २ द. स्य । ३ द. र्णा । ४ द. इतः परं “कंचु संनिभं । वक्रा
भवज्रतुल्यं वा कर्तव्यं लक्ष्मैष्णवे । पुष्पक्षेत्रोद्भवमिदं द्विजादीनां सितार्यत् ॥” इत्ययं अधिकः पाठः ।
५ द. ता । ६ द. या । ७ द. स्या । ८ द. °धं । ९ द. षतः । १० द. समायुतं । ११ द. °त्ता ।
मुद्रित पुस्तके ‘वृत्तायतं’ इति स्यात् । १२ द. र्या । १३ द. तां । १४ द. °लकसमायुतं । मुद्रित
पुस्तके ‘ °कसमायतम्’ इति स्यात् ।