सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 616, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 616

(एश्वास्याद् विश्वरूपे च कस्यायास्तुपुरस्करा ?)
चतुष्पिका(भि)स्तिसृभिर्भवेत् त्रैलोक्यसुन्दरी ॥ ७८ ॥
चतुरश्रीकृते क्षेत्रे भक्ते द्वादशभिः पदैः ।
त्रिभागायामविस्तारा मध्ये शाला चतुर्मुखी ॥ ७९ ॥
सर्वतः सार्धभागाश्च(च) कर्तव्या पदपद्धतिः ।
तस्याः प्रागुदक्१ ++++शालाचतुष्टयम् ॥ ८० ॥
द्विभागायामविस्तारं विधातव्यं सुशोभनम् ।
भागिकालिन्दकेनैतत् स्यात् प्राकूसे + न वेष्टितम् ॥ ८१ ॥
कक्ष्यास्ताभिर्द्विभागाभिः कर्णिकाभिरलङ्कृतम् ।
एवै(त)त् कर्णमञ्जर्याः कर्णे ++विधीयते(?) ॥ ८२ ॥
जगती स्याच्छ्वस्येष्टा३ तदा गन्धर्वमा(वा)लिका ।
इयवे(मे)वापरे भागे चतुर्थ्यां शालयान्वितां(ता) ॥ ८३ ॥
विज्ञेया जगती नाम्ना विद्याधरकुमारिका ।
अपरस्यां चतुर्थी(र्थीं) तु हित्वा शालां (विनीयते?) ॥ ८४ ॥
ते द्वे + (कुचो?) कुर्वीत सुभद्रां त्रिदशप्रियाम् ।
(चतसृषु भद्रेषु प्रत्येकं पञ्च कर्णिगा६ ॥ ८५॥
शालाः स्युर्यदिश्चन्द्राष्टा ?) तदा स्यात् सिंहपञ्जरा७ ।
चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥ ८६ ॥
त्रिभागायामविस्तीर्णं मध्ये देवकुलं भवेत् ।
भागेनैकेन कर्तव्यो भ्रमो दिक्षु तिसृष्वथ ॥ ८७ ॥
प्रासादायामविस्तीर्णे तस्याग्रे मुखमण्डपः ।
भद्रस्य पार्श्वद्वितये बाह्यतो भद्रविस्तृतं(म्) ॥ ८८ ॥
शालायुग्मं विधातव्यं त्रिपदायामविस्तृतिः९ ।
भागिकभद्रमा(भ्रम)णोपेतं (यदिकाच्च पयास्वित ?) ॥ ८९ ॥

१ द. क्षु । २ द. गि । ३ द. ष्टां । ४ द. सा । ५ द. च । ६ द. र्ण । ७ द. राः ।
८ द. ते । ९ द. तिः ।