समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 603, कुल 726 में से
संदर्भ में पढ़ें१४२ समराङ्गणसूत्रधारे
सार्धभागमितं यद्वा त्र्यंशोनं द्विगुणं क्वचित् ।
क्वापि त्र्यंशाधिकं कार्यं चंतुर्द्वारं + मण्डपे ॥ ९८ ॥
द्वारे कार्यौ प्रतीहारौ भल्लिका तोरणास्तथा ।
स्तम्भयोश्च वराली द्वौ शालभंजिकया सह ॥ ९९ ॥
प्राग्ग्रीवं भद्रभद्रं च रथिका वेदिका बहिः ।
मण्डपे वरकैंस्योर्ध्वमधस्ताच्छिखरस्य च ॥ १०० ॥
भागार्थं छेदपट्टः स्याच्छेषं कुर्वंत संवृतिं(१) ।
(शिखरा त्र्यंशयुग्मेन पादोन वा कारयेत् ?) ॥ १०१ ॥
प्रासादे शुकनासं तु (सन्तु सम्भ्रमेऽथवा ?) ।
मण्डपस्योदयः स्वस्मादधस्तादथवा भवेत् ॥ १०२ ॥
वामनाद्या अनन्तान्ताः प्राक् प्रोक्ता ये दशोपयेः(दयौः) ।
कर्तव्यो मध्यतस्तेषामुदयः कोपि मण्डपे ॥ १०३ ॥
प्रविभज्योदयं त्रेधा घण्टां भागेन कारयेत् ।
तत् त्रिभागेन तिलकस्तिलकार्धेन(फंसना ?) ॥ १०४ ॥
क्रमैस्त्रिभिः पञ्चभिर्वा शूर्पैर्निर्माणमिष्यते ।
स्कन्धछाद्यर्वासने वामेषा सर्वणोदिना(?) ॥ १०५ ॥
शोभां भद्रेषु कर्णेषु यथायोगं प्रकल्पयेत् ।
वीथीमिश्चन्द्रशालाभिः सिंहकर्णैश्च शोभनैः ॥ १०६ ॥
रथिकाभिर्वरालैश्च तिलकश्चारुदर्शनैः ।
शुकनासैर्गजैः सिंहैरन्यैरित्येवमादिभिः ॥ १०७ ॥
कर्मप्रकारैः कर्तव्या मण्डपे भूषणक्रिया ।
॰ त्रिविधैरथवा कूटैः सङ्घटैः कक्षकूटकैः ॥ १०८ ॥
तिलकैर्वा तमङ्गैर्वा खुरच्छाद्यैः संधदृकैः ।
शृङ्गादिभिः प्रभेदैश्च कार्या मण्डपसंवृतिः ॥ १०९ ॥
१ द. वक्तुद्दर । २ द. तंडि । ३ द. का सार्ध । ४ द. र्ति । ५ द. पयः । ६ द. वासेने ।
७ द. ॰वर । ८ द. की । ९ द. शुमनाशंर्गहडैः । १० द. वि । ११ द. सं ।