सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 565, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 565

५०४ समराङ्गणसूत्रधारे
वेदी चतुष्पदोत्सेधा जङ्घा भागाष्टकोच्छ्रिता ।
षट्पदा भूमिका + + + +¹ पञ्चपदायता ॥ ४३ ॥
स्यात् सम्पदे चतुर्भागा तृतीयान्या पदोच्छ्रिता ।
(सांद्रिवांसवघंटा ?) स्यात् पूर्ववत् कलशादिकाः ॥ ४४ ॥
नन्द्यावर्तोऽयमाख्यातः प्रासादः सर्वकामदः ।
अथातः सम्प्रवक्ष्यामः प्रासादं नन्दिवर्धनम् ॥ ४५ ॥
चतुरश्रीकृते क्षेत्रे पदाष्टदशकाङ्किते² ।
कोणस्त्रिपदविस्तारः प्रत्यङ्गं स्यात् पदद्वयम् ॥ ४६ ॥
शाला चतुष्पदा प्रोक्ता चित्रकर्मोपशोभिनौ ।
पादोनभागमानेन निर्गमः स्यात् परस्परम् ॥ ४७ ॥
कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा ।
भागेन विस्तृतं कार्यं सर्वत्र सलिलान्तरम् ॥ ४८ ॥
गर्भः स्याद् दशभिर्भागैर्भित्तिर्भागचतुष्टयात् ।
ऊर्ध्वमानमथ ब्रूमो द्विगुणं तत् प्रकीर्तितम् ॥ ४९ ॥
वेदीबन्धोऽशकाः पञ्च जङ्घा स्यादष्टभागिका ।
प्रथमा भूमिका कार्या कपोतालीसमन्विताँ ॥ ५० ॥
सपादैः पञ्चभिर्भागैर्द्वितीया तद्वदेव हि ।
तृतीया तु भवत्यस्य भूमिका पञ्चभागिका ॥ ५१ ॥
चतुर्थी भूमिका ज्ञेया सार्धभागचतुष्टया ।
घण्टा तस्योर्ध्वतः कार्या पदत्रयसमुच्छ्रिता ॥ ५२ ॥
शुकाद्या य(शू)रसेनश्च स्तम्भिकाकूटभक्तयः ।
कलशस्योदयस्तस्य विधेयाश्चास्य पूर्ववत् ॥ ५३ ॥
अमुं यः¹¹ कारयेदन्यः प्रासादं नन्दिवर्धनम् ।
स नन्दिगणसामान्यो जायते नात्र संशयः ॥ ५४ ॥
१ द. द्वि पंचदायता । २ द. ॰ष्ठिता । ३ द. यं । ४ द. तौ । ५ द. तं । ६ द. भागैश्च° ।
७ द. तः । ८ द. यं । ९ द. न्न । १० द. द्विद्विधेय । ११