सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 558, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 558

मेर्वादिद्विंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः । ४९७
स्तरमेकं भवेत् कण्ठः पट्टिकापि च तत्समा ।
गिरिपत्रीं च कुर्वीत भागार्धेन विचक्षणः ॥ ७९ ॥
द्वा(द्ध्य)र्धपादिकया युक्ता त्रिस्तरा स्याद् वरण्डिका ।
छेदं कण्ठं च कुर्वीत पूर्वमानेन बुद्धिमान् ॥ ८० ॥
पट्टिका गिरिपत्री च भागं भागं विधीयते ।
द्विस्तरं शिखरं कुर्या(त् तथा) छेदं तु भागिकाम् ॥ ८१ ॥
एवं कण्ठं प्रकुर्वीत + + + + पट्टिकाम् ।
वरण्डिका (द्विभाग्योहकारेण ?) समन्विता ॥ ८२ ॥
छेदं² कण्ठं च पत्री च गिरिवर्ती ³त्रिभागिका(?) ।
प्राग्वद्⁴ (विरिहिर ?)कुर्याद् यथाशोभं प्र + + + ॥ ८३ ॥
चतुर्थी भूमिका चोर्ध्वं कर्तव्या लक्षणान्विता ।
त्रयोदशस्तरं पीठं मध्यजङ्घा च तत्समा ॥ ८४ ॥
चतुःस्तरा भवेन्माला तदर्धं⁵ लशुनं ततः ।
कुम्भं तेन समं कार्यमु(कुर्यादु)च्छालं द्विस्तरं भवेत् ॥ ८५ ॥
तस्यार्धे गण्डकं कुर्यात् पट्टं तद्द्विगुणं ततः ।
पट्टिका गिरिर्पत्री च विधातव्ये स्तरं स्तरम् ॥ ८६ ॥
वरण्डी त्रिस्तरा कार्या छेदमेकस्तरं विदुः ।
कुर्वीत द्विस्तरं कण्ठं तदर्धेन तु पट्टिकाम् ॥ ८७ ॥
तत्समां गिरिपत्रीं द्वौ स्तरौ (खिरिहिरं ?) ततः ।
छेदः कण्ठः पट्टिका च गिरिपत्रीति⁷ भागिकाः⁸ ॥ ८८ ॥
वरण्डी द्विस्तरा कार्या ततश्छेदः स्तरं भवेत् ।
कण्ठश्च पत्रिका चेति गिरिपत्रीति भागिकाः ॥ ८९. ॥
(प्रांग्वत्काशिखिरिहिरं) कुर्याच्छेदं पूर्वक्रमेण च ।
द्विस्तरा तिलनासा (तु) विधातव्या विपश्चिता ॥ ९० ॥
१ द. स्या । २ द. दा; मुद्रित पाठस्तु 'छेदः कण्ठश्च पत्री च गिरिपत्रीति भागिकाः' इति
स्यात् । ३ द. ति । ४ द. तरिवरिहरं । ५ द. र्धे । ६ द. वर्तिश्च । ७ द. वर्तनीति । ८ द. का ।
९ द. तथा मुद्रित पुस्तकेऽपि 'प्राग्वन् खिरिहिरं' इति स्यात् ।
वा. ६३