समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 554, कुल 726 में से
संदर्भ में पढ़ेंमेरर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः । ४९३
हस्तद्वात्रिंशता कार्यः १ प्रासादो नन्दिवर्धनः ।
हस्तांस्तु नन्दनस्त्रिंशत् सर्वतोभद्र एव च ॥ ३० ॥
अष्टाविंशतिमष्टाभिः(त्रिः) षोडशा (त्रि) स्त्रिभिर्विना ।
वर्तुलः पद्मकः श्वेतो विमानच्छन्द एव च ॥ ३१ ॥
एते द्वादशहस्ताः + कार्यों विंशतिहस्तकौ (?) ।
गजः सिंहश्च कुम्भश्च वलभीच्छन्द(कँ)स्तथा ॥ ३२ ॥
चत्वार एते तुल्याः स्युर्हस्तोत्न्मेड्समानतः (?) ।
वावृक्षो मृगराजश्च विमानच्छन्द एव च ॥ ३३ ॥
एते द्वादशहस्ताः(स्युः) प्रमाणेन पृथक् पृथक् ।
दशहस्तो भवेद् वा स गरुते(डोऽ)ष्टकरः स्मृतः ॥ ३४ ॥
एतैः प्रमाणैः प्रासादा(न्) कुर्यादित्यपरे स्थिताः ।
एकहस्ता द्विहस्ताश्च (त्रि)हस्ता ये च कीर्तिताः ॥ ३५ ॥
यक्षनागग्रहादीनां विधेया रक्षसां च ते ।
विधिरेष समुद्दिष्टः प्रासादानां समासतः ॥ ३६ ॥
विशेषेण पुनर्व्रूमो विमानं शुद्धपुष्पकम् ।
चतुरश्रीकृते क्षेत्रे पञ्चात्रिंशद्विभाजिते ॥ ३७ ॥
रथिका पञ्चभागा स्याद् द्विभागं सलिलान्तरम् ।
(कूट ?) त्रिभागं पञ्जरं कुर्यात् प्राग्रीवकविभूषितम् ॥ ३८ ॥
जलान्तरं द्वितीयं तु तदपि स्याद् द्विभागिकम् ।
शालैकादशभागा तु पूर्ववत् सलिलान्तरम् ॥ ३९ ॥
त्रिभागं पञ्जरं कुर्याद् द्विभागं सलिलान्तरम्
कूटं पञ्चकरं प्रान्ते दिक्षु सर्वास्र्वयं विधिः ॥ ४० ॥
नागरोऽयं तलच्छन्दः प्रासादे शुद्धपुष्पके ।
जङ्घा सपीठा क्षेत्रार्धविस्तारसहशोदया ॥ ४१ ॥
सार्धैर्द्वितीया दशभिस्तृतीया नवभिः करैः ।
अष्टहस्ता चतुर्थी स्यात् सप्तहस्ता तु पञ्चमी ॥ ४२ ॥
१ द. र्या । २ द. र्यो । ३ द. स । ४ द. न्मो । ५ द. णा । ६ द. यां । ७ द. विं ।