सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 549, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 549

४८८ समराङ्गणसूत्रधारे
ततोऽष्टमी त्रिहस्ता स्याद् वेदीबन्धः करद्वयम् ।
घण्टां चतुष्करां कुर्यादेवं स्यादष्टभूमिकः ॥ १९५ ॥
अष्टभूमिकः ॥
अथोच्यते हस्तमानात् प्रासादो नवभूमिकः ।
विस्तारादेकपञ्चाशदुच्छ्रित्या स्याद् द्विसप्ततिः ॥ १९६ ॥
कर्णप्रमाणं १ (तस्योक्ता विस्तारोऽस्य चनुच्छ्रितिः ?) ।
पञ्चहस्ता भवेद् घण्टा वेदिबन्धस्तदर्थतः ॥ १९७ ॥
कुर्याद्धस्तत्रयं सार्धं नवमीमस्य भूमिकाम् ।
अष्टमीं चतुरः सार्धान् सपादान् पञ्च सप्तमीम् ॥ १९८ ॥
षष्ठीं षट् पादहीनांश्च (सपादोनाम ?) पञ्चमीम् ।
अष्टौ चतुर्थी पादोनान् ३हस्ता(त्राँच ?) तृतीयकाम् ४ ॥ १९९ ॥
विलोमेनैक( ष ) कथितः ५ प्रासादो नवभूमिकः ।
नवभूमिकः ॥
इदानीमभिधास्यामः प्रासादं दशभूमिकम् ॥ २०० ॥
एकोनाशीतिरुत्सेधः सपादा विस्तृतिः पुनः ।
षट्पञ्चाशत्कराः कर्णमानाद् ब्रूमोऽथ भागशः ॥ २०१ ॥
एकादशकरोत्सेधा कार्या प्रथमभूमिका ।
सार्धोन् दश द्वितीया स्यात् तृतीया तु करान् दश ॥ २०२ ॥
सार्धानष्टौ चतुर्थी तु सप्तसार्धस्व(र्धांस्तु) पञ्चमी ।
षष्ठी सप्तकरा प्रोक्ता सप्तमी षट्करा भवेत् ॥ २०३ ॥
पञ्चहस्ताष्टमी ज्ञेया नवमी तु चतुष्करा ।
त्रिहस्ता दशमी कार्या वेदी सांशं करद्वयम् ॥ २०४ ॥
++++१० प्रमाणेन सार्धं करचतुष्टयम् ।
एवमेष समुद्दिष्टो विन्यासो दशभूमिके ॥ २०५ ॥
दशभूमिकः प्रासादः ॥
१ द. 'णं' इति स्थाने 'णां' पाठः । २ द. रस्येवमुच्छ्रितिः । ३ द. हसन्नेव । ४ मु. पु.
'ञ्व' इति पाठ्यं भाति । ५ मुद्रित पुस्तके इत उपरि प्रथमद्वितीयभूमिकयोः प्रमाणं मातृकायां न दृश्यते ।
६ द. ता । ७ द. सा । ८ द. द । ९ द. द्वै । १० द. घंटाद्वयं ।