समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 317, कुल 726 में से
संदर्भ में पढ़ें२५२ समराङ्गणसूत्रधारे ।
ब्रह्मस्थानं समारभ्य हर्म्यं पञ्चशयाः स्मृताः ।
उपरथ्या त्रिहस्ता ते शेषास्तु द्विशै³याः स्मृताः ॥ ४२ ॥
संनिकृष्टा विधातव्या दुर्गा(र्ग)रथ्या समन्ततः ।
द्वारं⁵ रथ्याप्रमाणेन कार्यं नात्यन्तमुच्छ्रितम् ॥ ४३ ॥
परचक्रसमं (मसं)बाधं सुरक्षं तत् सदा भवेत् ।
दुर्गेश्वरगृहस्थानं ब्रह्मणः परितो भवेत् ॥ ४४ ॥
वैवस्वतेऽथवार्यम्णे मैत्रे पृथ्वीधरेऽपि वा ।
यथा पुरे पुरा प्रोक्तं स्थानं दुर्गेऽपि तत् तथा ॥ ४५ ॥
वीराः शुभा ह्यदोषाश्च भूमिपालस्य संमताः ।
धनुर्वेदविधिज्ञाश्च कृतास्त्राः शास्त्रपारगाः ॥ ४६ ॥
दुर्गे स्थाप्याः सुरूपाश्च बहवश्च वरस्त्रियः ।
अन्तःपुरं च कोशं च कुमारांश्चात्र वासयेत् ॥ ४७ ॥
एवं दुर्गे¹¹विधानस्य समासोऽयमुदाहृतः ।
इत्यष्टाङ्गो वास्तुशास्त्रस्य सारः संक्षेपेण स्पष्टमस्माभिरुक्तः ।
यन्न ज्ञाते शिल्पिवृन्दू वास्तुविद्यापाथोनाथं सन्तरन्त्यप्रयासात्
॥ ४८ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
अष्टाङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः ॥
अथ तोरणभङ्गादिशान्तिकॊ नाम षट्चत्वारिंशोऽध्यायः ।
पुरातनं नवं वापि कृतं वार्थार्ध¹³निर्मितम् ।
देवतानां नृपाणां¹⁴ च तोरणं निपतेद्¹⁵ यदि ॥ १ ॥
१ द. रध्यं । २ द. स्तु । ३ द. ती । ४ द. शांतिकृष्टा । ५ द. र । ६ द. ब्रह्मादपरतो ।
७ ख. ग. द. थ । ८ द. का । ९ द. लाथ । १० द. रा । ११ द. र्गे । १२ क. वृद्वास्तु वि ।
१३ द. चार्थोर्द्धनिं० । १४ ख. ख. ऋषीणां च । १५ क. पत्यते य, ग. नृपतेर्यदि; द. नृपते यदि ।