सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 306, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 306

द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः । २४१
सोमं तत्र यजेद्¹ देवं प्रायश्चित्तं समाचरेत् ।
सुखी भवति कृत्वैवं² कुटुम्बी शान्तिकं³ च तत् ॥ ६५ ॥
स्थूणाराजस्य यस्याग्रं वक्त्रं दक्षिणतो भवेत् ।
शरीरं व्यथते तत्र प्रतिसंवत्सरं स्थिरम्⁴ ॥ ६६ ॥
पृष्ठतो⁵ दीर्घशोकः स्यादात्तरेण⁶ धनक्षयः ।
पूर्वतो राजदण्डः स्यात् तस्मात् तद् ऋजु शस्यते ॥ ६७ ॥
चत्वार्यङ्गानि हिंस्यन्ते शरीरा ये च वेश्मनः ।
तुला वा पृष्ठवंशो वा धारण्यां(णी)चोत्तराम्बरः ॥ ६८ ॥
उक्तांस्तत्र बलीन् कुर्यात् प्रायश्चित्तं तथाचरेत् ।
एवं धन्यं शिवं पुष्टिप्राजावृद्धिकरं भवेत् ॥ ६९ ॥
इत्थं निमित्तानि गृहाश्रितानि
ज्ञात्वा प्रैदृष्टान्⁷ शकुनांश्च सर्वान् ।
शान्ति प्रकुर्वन् पृथगुक्तरूपां⁸
प्राप्नोति कीर्त्ति सुखमर्थमायुः ॥ ७० ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः ॥

अथ द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः ।

यदत्र नवकर्मोक्तं तंद्⁹ यज्ञेषु गृहेषु च ।
ज्ञेयं ग्रामे पुरे वापि नगरे पत्तने तथा ॥ १ ॥
संस्थानमाकृतिर्मानं हासैवृद्धी¹⁰ च बाहुषु ।
एकमेव विजानीयात् सर्वत्रैव विचक्षणः ॥ २ ॥
यूपस्यैव निमित्तानि दारुकर्मणि निर्दिशेत् ।
पातं पैते¹¹ विजानीयात् तैक्षणं¹² तैक्षणेन¹³ च ॥ ३ ॥
१ द. जये देवं । २ ख. ग. कर्मवित्; द. ०कर्म तत् । ३ द. चक्रं । ४ क. ते; द.
स्थिरिं ते । ५ द. पूज्यतो । ६ ख. ग. द. द्योत० । ७ द. अ । ८ क. ह । ९ द. पाः । १० द.
य । ११ ख. ग. द. सं । १२ द. पा । १३ द. तत् । १४ द. तत् ।
वा. ३१