सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

६०८ साहित्यदर्पणे
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गनगतः खलो मनसि सप्त शल्यानि मे ॥’
इह केचिदाहुः—‘शशिप्रभृतीनां शोभनत्वं खलस्याशोभनत्वमपि
सदसद्योगः’ इति । अन्ये तु—‘शशिप्रभृतीनां स्वतःशोभनत्वं धूसरत्वा-
दीनां त्वशोभनत्वमिति सदसद्योगः ।’ अत्र हि शशिप्रभृतिषु धूसरादे-
रत्यन्तमनुचितत्वमिति विच्छित्तिविशेषस्यैव शोभनत्वे प्रक्रमादिति । इह
च खलेकपोतवत्सर्वेषां कारणानां साहित्येनावतारः । समाध्यलंकारे त्वेक-
कार्यं प्रति साधके समग्रेऽप्यन्यस्य काकतालीयन्यायेनापतनमिति भेदः ।
‘अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् ।
मुखमानतं च सखि ते ज्वलितश्चास्यान्तरे स्मरज्वलनः ॥’
अत्राद्येऽर्धे गुणयोर्यौगपद्यम्, द्वितीये क्रिययोः । उभयोर्यौगपद्ये
यथा —
‘कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः ।
पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥’
र्गतत्वपर्यन्तानां ग्रहणम् । खलस्य तु खतोऽशोभनत्वं नृपाङ्गनगतत्वस्य शोभनत्व-
मिति वैपरीत्येन सदसद्योगः । मनोदुःखं प्रति धूसरत्वादिविशिष्टचन्द्रादयः कार-
णानि कारणीभूतानां विशेष्याणां विशेषणानां च यथासंभवं सतामसता च योग
एव सदसद्योग इति भावः । अन्येषां मतमुपपादयति—अत्र हीति । विच्छि-
त्तिविशेषस्यैवेत्येवकारेण मनसीत्यादिव्यावृत्तिः । नन्वेतनिरर्थकमत आह—मन-
सीति । तथा च वाक्यसमापकत्वेनैव तत्सार्थकमिति भावः । प्रथममतं दूष-
यति—नृपाङ्गनगत इति । विशेषस्यैवेत्येवकारेण विशिष्टव्यवच्छेदः । तथा
चात्र विशेष्यविशेषणयोर्योग एव वैचित्र्यावहो नतु विशिष्टाना योगः । क्रमभेद-
रूपदोषावहत्वादिति भावः । समाध्यलंकारादस्य भेदमाह—इहेति । साहित्येन
मिलितत्वेनावतारः । समग्रे समर्थे पर्याप्ते काकतालीयन्यायेन अप्रतिसंहतत्वेना-
पतनमुपस्थापनम् । यत्र कार्यविशेषं मिलितान्येव कारणानि जनयन्ति समुच्चयस्य
विषयः । यत्र त्वेकस्मिन्कारणे फलसाधनायानुष्ठीयमाने देवादुत्पन्नेन कारणान्त-
रेण तत्फलस्य सुकरत्वं स समाधिरिति भावः ॥ गुणयौगपद्ये समुच्चयमाह—अ-
रुणे चेति । नायिकां प्रति सख्या उक्तिरियम् । नयने रक्ते इति शेषः ॥ कलु-
षमिति । रोषकषायितमित्यर्थः । सितपङ्केरुहस्य सोदरीसदृशी श्रीः शोभा यस्य
तत् । अस्य वैयधिकरण्ये एव प्रयोगप्राचुर्यं विच्छित्तिविशेषजनकत्वं च । क्षति-
१. ‘शमद्यानं’ इति मुद्रितपुस्तकेऽधिकम् ।

The provided image is completely blank and contains no visible text.