साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 486, कुल 506 में से
संदर्भ में पढ़ेंदशमः परिच्छेदः । १८४
वर्णप्रत्ययलिङ्गानां प्रकृत्योः पदयोरपि ॥ ११ ॥
श्लेषाद्विभक्तिवचनभाषाणामष्टधा च सः ।
क्रमेणोदाहरणम्—
‘प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥’
अत्र ‘विधौ’ इति विधु-विधि-शब्दयोरेकशेषेण वर्णश्लेषः ।
‘किरणा हरिणाङ्कस्य दक्षिणश्च समीरणः ।
कान्तोत्सङ्गजुषां नूनं सर्वे एव सुखावहाः ॥’
तावन्न एव शब्दा एकप्रयत्नेनोच्चार्य्यन्ते यतो नैकस्यापि स्वरितोदात्तादिभि-
भेदोपलम्भो न भवति। तत्रापि प्रकरणनियमाभावेनान्यतरस्याप्रतिपत्तिर्भवति ।
प्रकरणदिनियम्ये तु एकत्रानियतावान्यत्राप्रतीतिर्न स्यात् तदुदाहरति—‘प्रतिकूलतामिति’ ।
एवञ्चैकप्रयत्नोच्चार्य्यत्वेन रूपभेदेऽपि वर्णश्लेष इत्याह ‘विधौ’ इति ‘विधौ’ इति विधिविधुशब्दयो-
र्नानाविधा बोधनेऽपि 'द्वौ' इत्यादीव न 'द्विवचनं' 'नापि' 'द्वन्द्वः' 'कपालं' 'मांसाभ्यां'
रितिभेदेन द्वित्वप्रतीतिप्रसङ्गात्—इत्येति । एवञ्च द्वयोरेकशेषे सति वर्णश्लेष एवेत्यर्थः
इत्यवेक्ष्यम् ॥ प्रतिकूलेति । हि यस्माद्विधौ विधौ वा विधुविधाविति द्वन्द्वः ।
दिनभर्तुः सूर्य्यस्य पतिष्यतोऽस्तमयपदमापद्यमानस्यावलम्बनाय धारकत्वाय नाभूत् । अत्र हि
पतिष्यत इत्यनेनैतत् सूचितं यदा तस्यापि पतनादवस्था विपरीता तदा किं पुनरन्यस्य
तस्याप्यसहायत्वात् का गतिरिति भावः । अतोऽस्यैवेति चिन्यम् । अत्र विधौ इति विधि-विधु-
शब्दयोरेकशेषे वर्णश्लेषः । विधौ विधौ चेति विधी द्वित्वम् । विधिना च विधुना च
शब्दाः । बहुसाधनता बहुभिः साधनैर्यस्य तस्य भावस्तत्ता । सापि विफलत्वमेतीति
सूर्य्यपक्षेऽपि विधिशब्देनोपकरणातिशयोऽवगम्यते तदापि तस्य साहाय्याभावा-
त्पतनमेवेति सूर्य्यस्य विपक्षात् तस्यापि विपत्प्रतीतेर्वर्णश्लेषः ।
न्नून्पक्षे—'ईदृशे विधि'—इत्यर्थः सूर्य्यपक्षे तु 'ईदृशे विधौ' इति रूपसिद्ध्या वर्णश्लेषः ।
- इत्येति । रङ्गराजेन तु वर्णश्लेषः समर्थितः—
इत्यादिरूपसाधनाय । अत्र तु 'विधौ' इति विधुविध्वोरेकशेषे द्वित्वे जाते
रूपस्य वर्णश्लेषप्रयुक्तत्वम् । न च 'विधौ' इति विधीयमानस्य
'ह्रस्वस्य गुण' इति गुणो द्वित्वे 'औ' इति स्यात् न तु 'औ'
इत्यतः 'ओकार' इति रूपं सिध्यतीति वाच्यम् ।
'विधौ' इत्येकवचनेनैव रूपसिद्धेर्द्वित्वे रूपान्तरापत्तेः ।
न्यायेन गुण एव सम्भवति न तु द्वित्वमित्यर्थात् ।
प्रयुक्तस्य विधिशब्दस्य रूपं विधौ इत्येवं सिद्धम् । तेनैकशेषे रूपद्वय-
न्न सिद्धः 'इति'