सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 484, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 484

सप्तमः परिच्छेदः । ४४१
एवं च विशेषणमात्रस्य पुनरुपादाने समाप्तपुनरात्तत्वं न वाक्यान्तर-
स्येति विज्ञेयम् ।
गर्भितत्वं गुणः क्वापि-
यथा-
'दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यत्सान्नादुरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥'
अत्र वदन्त एवेत्यादि वाक्यं वाक्यान्तरप्रवेशात् चमत्कारातिशयं
पुष्णाति ।
पतत्प्रकर्षता तथा ॥ २८ ॥
तथेति क्वचित् गुणः । यथा - 'चञ्चद्भुज-इत्यादि (३०२ पृ.) ।
अत्र चतुर्थपादे सुकुमारार्थतया शब्दाडम्बरत्यागो गुणः ।
क्वचिदुक्तौ स्वशब्देन न दोषो व्यभिचारिणः ।
अनुभावविभावाभ्यां रचना यत्र नोचिता ॥ २९ ॥
हरस्यैव पिनाकसम्बन्धेन दुर्जयत्वमिति व्यङ्ग्याद् गुणत्वम् । नायं निष्ठुरवैरयुवति
नागो तिनिष्ठुरधनुष्मान्नाह पुत्रो नहि नहि जटाजूटभार दधान । नायं व्याधो
नवगुणधर पश्य कस्मादकस्मात्पुण्येऽरण्ये नवजलधरश्यामल कोऽयमेति ॥' अत्र
द्वितीयस्य नहीति निपातसमुदायस्य वाचकत्वाभावेन कथितपदस्य न विषयः,
कि त्वधिकोऽपि राजपुत्रस्य जटाधारणमत्यन्तासम्भवीति व्यङ्ग्याद् गुण एव ॥
न वाक्यान्तरस्येति । पुनरुपादाने समाप्तपुनरात्तत्वं न दोष इत्यर्थः ।
दिङ्मातङ्गेति । दिङ्मातङ्गसमूहेन विभक्ताः परिच्छिन्नाश्चत्वार आघाटाः सीमा
यस्याः सा । साध्यते स्ववशीक्रियते । सिद्धा साधितापि सा मही । विप्राय
प्रतिपाद्यत इत्युत्तरेणान्वयः । किमपरमिति वाच्यमिति शेषः । दधैवाद्भुतमा-
श्चर्यम् । यत्रैवेति । तथा च तत्सुल्यो न भूतो न वर्तमानो न भविष्यतीति
भावः ॥ चमत्कारातिशयमिति । तेन युद्धवीरदानवीरयोः परिपोषः ॥
क्वचिदिति । यत्र पद्यांशे सुकुमारार्थत्वं तत्रेत्यर्थः ॥ इदानीं रसदोषाणां नियम-
विशेषे यथायथमदोषत्वं गुणत्वं चाह-क्वचिदिति । रचना व्यञ्जनम् । विभावा-