साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
DevanagariSanskritpublished506 पृष्ठ
पृष्ठ 482, कुल 506 में से
संदर्भ में पढ़ेंपृष्ठ 482
सप्तमः परिच्छेदः । ४२१
अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः ।
अर्थानौचित्यमन्यच्च दोषा रसगता मताः ।
रसस्य स्वशब्दो रसशब्दः शृङ्गारादिशब्दश्च । क्रमेण यथा—
‘तामुद्वीक्ष्य कुरङ्गाक्षीं रसो नः कोऽप्यजायत ॥’
‘चन्द्रमण्डलमालोक्य शृङ्गारे मग्नमन्तरम् ॥’
स्थायिभावस्य स्वशब्दवाच्यं यथा—
‘अजायत रतिस्तस्यास्त्वयि लोचनगोचरे ॥’
व्यभिचारिणः स्वशब्दवाच्यत्वं यथा—
- ‘जाता लज्जावती मुग्धा प्रियस्य परिचुम्बने ॥’
अत्र प्रथमे पादे ‘आसीन्मुकुलिताक्षी सा’ इति लज्जाया अनुभाव-
मुखेन कथने युक्तः पाठः ।
‘मानं मा कुरु तन्वङ्गि ज्ञात्वा यौवनमस्थिरम् ॥’
अत्र यौवनास्थैर्यनिवेदनं शृङ्गाररसस्य परिपन्थिनः शान्तरसस्याङ्गं
शान्तस्यैव च विभाव इति शृङ्गारे तत्परिग्रहो न युक्तः ।
‘धवलयति शिशिररोचिषि भुवनतलं लोकलोचनानन्दे ।
ईषत्स्मितकटाक्षा स्मेरमुखी सा निरीक्ष्यतां तन्वी ॥’
अत्र रसस्योद्दीपनालम्बनविभावावनुभावपर्यवसायिनौ स्थिताविति
कष्टकल्पना ।
दिकरं रसस्य । प्रकृतीनां नायकोचितधर्माणां विपर्ययोऽन्यथावर्णनम् । इष्ट-
केवलमनौचित्यम् । अन्यद्रसातिनिर्वहणम् ॥ कोऽप्यनिर्वचनीयप्रमदः ॥
व्यभिचारिणः स्वशब्देनोपादानं एव स्वशब्दवाच्यत्वं दोषः, रसानुसन्धानार्थमुपादाने
तु न दोषः । यथा लज्जामुकुलीति, अमन्दोत्सुक्ये च । स्वशब्दवाच्यत्वं
रसादिप्रकर्षदोषप्रविभाद्यपरम् ॥ विरोधिप्रसङ्गपरिग्रहमुदाहरति—मानमिति ।
शान्तस्येव चेति । चशब्दो हेतौ । विभाव उद्दीपनविभावः । तत्परिग्रहो
यौवनास्थैर्यवेदनरूपम् ॥ अनुभावस्य पृथगुदाहरणम्—धवलयतीति । शिशि-
ररोचिषि चन्द्रे चन्द्रिकयोद्भासयन्त्यां हेत्वर्थः । अयेति । आलम्बनं
१. तामिति । ‘तामन्तःकरणप्रियां विधिकृपां दृष्ट्वैकमन्तःस्थिताम् । नेत्रयोः कृत-
सञ्ज्ञेन गोचरे सोऽजायत रसो निर्भरः’ इति प्रकाशोदाहरणस्य पूर्वार्द्धः ।
२. चन्द्रेति । ‘आलोक्य चन्द्रमण्डलमानन्दयन्तं भुवनं शृङ्गाररसाप्लुतम् ।
इहैव मग्नमन्तरम् विलोलतारकं स्मेरमुखाम्भोरुहे’ इति प्रकाशोदा-
हरणस्यापरार्द्धम् ।