साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 475, कुल 506 में से
संदर्भ में पढ़ें३८२ साहित्यदर्पणे
अप्रयुक्तत्वं तथाप्रसिद्धावपि कविभिरनादृतत्वम् । यथा—
'भाति पद्म मरोवरे ॥'
अत्र पद्मशब्द पुल्लिङ्गः ।
ग्राम्यत्वं यथा—
'कटिम्ने हरते मनः ॥'
अत्र कँटिशब्दो ग्राम्यः ।
अप्रतीतत्वमेकदेशमात्रप्रसिद्धत्वम् । यथा—
'योगेन दलिताशय ॥'
अत्र योगशास्त्र एव वासनार्थ आशयशब्दः ।
तस्य व्यञ्जकत्वात्तच्छुदपदस्यानुचितार्थत्वम् । द्वितीय यथा—'प्रज्वलद्वणैर्
पतन्ति शरान्व ।' अत्र प्रज्वलदिति पदमनुचितार्थम् । तृतीय यथा—दिवा
रात्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने
ममत्समुच्चैः शिरसामनीव ॥' अत्रामङ्गत्वान्यत्वकारभवस्य समर्थकं द्विर्द...
चितार्थम् । एवमन्यदपि ज्ञेयम् ॥ तथाप्रसिद्धावपि तेन रूपेण प्रसिद्धावपि...
पुंलिङ्ग इति । 'अप्रयुक्त' इति शेष ॥ हालिकसाधारणप्रसिद्धत्...
ग्राम्यः । कटिरिति । अत्र शृङ्गारस्य गूढवक्तृत्वादलाभावाच्छ्रव्यैकदेशि...
रोध ॥ योगेन प्रकृतिपुरुषयोर्भेदचिन्तनेन दलिन खण्डित आशयो वास...
यस्य स । आशयशब्दोऽप्रतीत इति शेष । अत्र योगशास्त्रानुशीलिना...
पदार्थानामज्ञाना योगिनिपदभवबोधविलम्बकरत्वमप्रतीतत्वम् ॥ प्रकरणार्था...
1 पद्मेति । 'वा पुंसि पद्मम्' इत्यनेनाज्ञातोऽपि पुंल्लिङ्गः पद्मशब्दः कविभिर्न हि
प्रयुक्त । अत्र दूषकताबीज तु नादृशकृतिनमयलङ्कनप्रयोजनानुसंधानलक्षणदुष्टतायै
भवति । यमकादिप्रयोजनसत्त्वे तु नाय दोष, अन्यत्राप्रयुक्तस्यापि क्वचित्
भे प्रयोगस्य दर्शनेन व्यग्रनाभावादिति ॥
2 कटीति । अत्रेद तत्त्वम्—श्रोणीनितम्वादिकमेव विदग्धे प्रयुज्यते, कटिशब्दस्तु
दग्धमात्रप्रयोज्यमिति ग्राम्यम् । पद त्रिविधम्—ग्राम्य नागरमुपनागर च । विदग्ध...
प्रसिद्ध नागरम्, ग्राम्यकक्षातिक्रान्तमप्राप्तनागरभावमुपनागरम्, नागरेणोत्तरे विदुषा
ग्राम्यशब्दप्रयोगादुत्तरवैदग्ध्योन्नयनेनात्र दौष्टयम् । अत एव विदूषकादावधने वक्तृ...
दोषत्वम्, तस्य तथैवाचित्येन वैरस्याभावाद् ॥ अन प्रकारे संपूर्णश्लोकस्त्वेवम्—
'राकाविभावरीकान्तसक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभा कटिश्च हरते मनः ॥'
3. योगशास्त्र इति । 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः' इति
पातञ्जलसूत्रे ( १।२४ ) वासनार्थक आशयशब्दः प्रयुक्त । वासना चात्र दुः...
निदानं मिथ्याज्ञानजन्यः सस्कारविशेषः । दूषकताबीज तु तच्छास्त्रानभिज्ञस्य तदा...