सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 458, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 458

षष्ठः परिच्छेदः। ३४३
यथा वेण्याम्—दुर्योधनभ्रान्त्या भीमं प्रति 'युधिष्ठिरः—दुरात्मन्,
घनहतक—' इत्यादि ।
संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते ।
यथा मम चन्द्रकलायाम्—'राजा—प्रिये,
'अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा ।
( आत्मानं निर्दिश्य । )
अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥'
गुणानां कीर्तनं यत्तु तदेव गुणकीर्तनम् ॥ १९२ ॥
यथा तत्रैव—
'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि—' इत्यादि ( ११० पृ. ) ।
स लेशो भण्यते वाक्यं यत्सादृश्यपुरःसरम् ।
यथा वेण्याम्—'राजा—
हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥'
मनोरथस्त्वभिप्रायस्योक्तिर्भङ्ग्यन्तरेण यत् ॥ १९३ ॥
यथा—
'रतिकेलिकलं किंचिदेष मन्मथमन्थरः ।
पश्य मुग्धे समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥'
विशेषाथोँहविस्तारोऽनुक्तसिद्धिरुदीर्यते ।
तादृशजनितभ्रमात् । 'अनुभूतस्य' इति पाठे सादृश्यादनुभूतस्य भ्रमविषयस्येत्यर्थः ॥
संक्षेपात् अविशेषात् । अन्यार्थे वर्णान्तरस्थाने । प्रयुज्यते निर्दिश्यते ॥ अय-
मिति । अत्रायमित्यनेन राजा सन्तो वेति न विशेषोपन्नम् । एष एवार्थान्तर-
स्थाने आत्मनः प्रयोगः ॥ सादृश्यपुरःसरं सादृश्यतात्पर्यकम् ॥ गाङ्गेये भीष्मे ।
सैवेति तत्तुल्यलाघवा तात्पर्येण । यथा वृद्धस्य हतेन पाण्डुपुत्राणां तथा धन्या-
नामपि घातयैर्हताभिनैर्दुष्कृतैर्नाम्नो भविष्यतीति भावः ॥ उक्तिर्नि-
र्बन्धम् । भङ्ग्यन्तरेण प्रकारान्तरेण ॥ रतिकेलिं वन्दति ना । यद्वा क्ले-
शोजितं यथा स्यात् । समालम्भादाश्लेषविशेषात् । कादम्बः हंसः । अत्र
प्रियर्थं तद्वन्मम प्रियसंगमे प्रार्थना नृपेण स्वस्य प्रियसङ्गमाभिलाषः
सूचितः । विशेषेति । स्पष्टतरमप्रदिष्टवशाद्येन विशेषः तस्मै प्रयोजनं विशेषः ।