साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 446, कुल 506 में से
संदर्भ में पढ़ेंपञ्चमः परिच्छेदः । २५९
दः । पूर्वपश्चाद्भावेन च कालभेदः । शब्दाश्रयत्वेन शब्दतदेकदेशत-
दर्थवर्णसंघटनाश्रयत्वेन चाश्रयभेदः ।
‘कस्स व ण होइ रोसो दट्ठूण पिआइँ सव्वणं अहरं ।
सभमरपडमग्घाइणि वारिअवामे सहसु एहिँ ॥’
इति सखीत्तत्कान्तविषयत्वेन विषयभेदः । तस्मान्नाभिधेय एव
व्यङ्ग्यः ।
मुपपादयति—पूर्वेति । वाच्यार्थव्यङ्ग्यार्थयोः प्रतीतिपौर्वापर्येण कालभेदः ।
आश्रयभेदमुपपादयति—शब्देति । वाच्यस्य शब्दाश्रयत्वेन शब्दमात्रसंबन्धि-
त्वेन व्यङ्ग्यस्य शब्दादिसंबन्धित्वेन तयोराश्रयभेदः । तदेकदेशेति । शब्दै-
कदेशेत्यर्थः । स च प्रकृतिप्रत्ययोपसर्गादिरूपः । तदर्थेति । शब्दार्थेत्यर्थः ।
विषयभेदमुपपादयति—कस्स वेति । 'कस्य वा न भवति रोषः पश्यत
श्चियायाः सव्रणमधरम् । सभ्रमरपद्माघ्राायिनि वारितवामे सहस्वेदानीम् ॥' इति
संस्कृतम् । उपनायकदष्टाधरा सखीं तर्जयन्तं कान्तं प्रतारयन्त्याः सख्या उक्ति-
र्यम् । सभ्रमरेति । सभ्रमरपद्माघ्राणे निवारितापि तत्कारिणी, तत्संबो-
धने । तथा सहस्व पत्युस्तर्जनं भ्रमरदंशनजन्यव्रणवेदनां च । अत्र वाच्या-
र्थबोधे सखी उद्देश्या, भ्रमरेणास्या अधरो दष्टो न पुन रुपपतेरपेति
व्यङ्ग्यार्थबोधे कान्त उद्देश्य इति विषयभेदः । नन्वेषा कान्तेन चोभयबोध-
संभवादिति न बोद्धृभेद । उपसंहरति—तस्मादिति । नैव व्यङ्ग्य इत्य-
न्वयः ॥ व्यङ्ग्यान्तरबोधे यथा तथाद्यु रनादिबोधेषु व्यञ्जनायावृत्त्यङ्गीकारमन्तरेण
- कस्स वेति । कस्य वेति अनीयोलोरिति । सभ्रमरपद्माघ्राणशीले । शीलं हि न्यर्थ-
विदपि वारयितुं न शक्यम् । सहस्वेदानीम् । स्वातन्त्र्यदोषफलमित्यर्थः । अत्रायं भावः—
स्वामिविनीता कुलस्त्रियमपिस्वाधरा तत्सन्निधिसन्निधाने भर्तारं समनवलोक्यान्यतैव
दधावितिशङ्कया मदवाच्यतापरिहारादेवेत्युच्यते । सहस्वेदानीमिति दाक्ष्यनन्दिपदवी-
निददत् । भर्तृविषय तु सङ्ग्रहो नान्नीत्यादेयमानं व्यड्यम् । तथा च निन्दनेन
साकूतवन्दनान्त्या सखीप्रियादिनिवारितविषयोपदिष्टं यत्स्निग्धज्वालनेन प्रत्या-
यानं व्यङ्ग्यम् । तत्कण्ट्या च तदुद्भाव्यप्रकटितप्रच्छन्ना मौनशालिटोन्भावनं क्रि-
याया इति दृषदन्तीति सखीविषयं व्यङ्ग्यम् । सखीमध्ये इयमुत्कृष्टेत्याकृति सन्-
दर्भावती प्रतोये न युक्तम्, प्रत्युत्कर्ष द्युतमानम् नान्य समेष्वेवेत्यन्योऽपि सखीविषयं
मौनप्रकट्यान्मध्यङ्ग्यम् । अथैवं ह्यय प्रव्यञ्जनावृत्तिं हृदन्तश्चेत्थं रसिना पुनः
अपरदंशाङ्गादिनिर्न विषय इति व्यङ्ग्यान्मुखनिबन्धनेन स्पष्टम् । एवं मौनप्र-
वृत्तमेवे सर्वैदुष्टान्तानां मुख्यविषयोपक्षिप्तं विषयम् आहुरेति बोद्धव्यस्तारः ॥