साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 430, कुल 506 में से
संदर्भ में पढ़ेंचतुर्थः परिच्छेदः। २२१
अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालंकारो व्यङ्ग्यः।
एवं च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः।
तदष्टादशधा ध्वनिः ॥ ९ ॥
अविवक्षितवाच्यः, अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति
द्विविधः । विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः । सं-
लक्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो
ध्वनिः । एषु च—
वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः ।
तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा—
‘धन्यः स एव तरुणो नयने तस्यैव नयने च ।
युवजनमोहनविद्या भवितेयं यस्य सम्मुखे सुमुखी ॥’
व्यञ्जने वसन्तस्यैव नानार्थसत्त्वप्रतिसन्धानसहकृतेन माधवपदेन वसन्त एव
व्यज्यते न ततोऽन्यम्। तस्य तत्र सामर्थ्याभावात्। न चात्र शब्दार्थोभयश्लेष-
शब्देनोभयशक्तिव्यञ्जनोपमेति वाच्यम्। तथा सति 'दुर्गालङ्घित-' (६२ पृ०)
इत्याद्युपमाश्लेषमत्त्वेनोभयशक्तिव्यङ्ग्यत्वं स्यात्। गृहीतगरिमेल्यर्थापेक्षस्यापि तत्र
सत्त्वात्। ननूक्तभेदेषु व्यङ्ग्यस्यैव भेदो दर्शितः। तत्र प्रकृतानुपयुक्तमत आह—
एवं चेति। तदिति। उक्तप्रकारैरित्यर्थः॥ अष्टादशत्वमुपपादयति—अविव-
क्षितेति॥ वाक्ये द्वावेव एव। तदन्ये उभयसम्भूतौ त्वन्ये॥ धन्य इति।
१. उपमेति। श्रोतृप्रतिपादकपरस्परविरोधितानां पाण्डित्यसम्प्रदायादिमूलप्रती-
त्त्यापि रसाभिव्यञ्जकत्वं दृश्यत इति प्राचां रीतिः पदानुवादेऽनुपपत्तिस्तु स्यादेवेति
मतम्—'राज्योदित्वमहोत्तरी' इत्यादि-पदापेक्षया 'अपि दैवो नृपेदेवे' इत्युपपत्ति-
साधनम्॥' इत्युपपाद्यम्।
२. पदगतेति। वस्तुतःपदस्वरूपमुद्घाटयितुमशक्येऽपि द्विविधः, तयोर्निरूपितो
भेदावधेषः शब्दार्थोभयशक्तिमूल एव..., इति व्यङ्ग्यभेदेन ध्वनिर्नानाविधस्यापि-
भेदादेवोपपद्यत एवेति॥
३. तदन्ये इति। अर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यौ द्वौ वाक्ये च भवन्ती-
त्यर्थः। पदे चोभयम्—पदैकदेशे वाक्यप्रभागे संलक्ष्यक्रमोऽपि रसभावानुभावपदे
च प्रकृतं रीति-वर्णेषु दृश्यमानम्। अनन्तस्य प्रकृतत्वात्तु वाक्यगतध्वनिति
४. 'धन्य' इत्यादि। सुमुखेत्यस्य सम्मुखे सति स 'धन्यस्तरुण' इति
पदद्वये तात्पर्यार्थः। 'नयने' इत्याद्येऽर्थेऽभिधेयं द्वितीये प्राशस्त्याति-
शायकरूपेण च द्वये रत्यादीनां भावानां तात्पर्यम्। अतः सातिशय-
दुःखासंलक्ष्यक्रमम्,