सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 423, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 423

यहाँ पृष्ठ की पंक्ति-दर-पंक्ति सटीक लिप्यन्तरण प्रस्तुत है:

२१० साहित्यदर्पणे
अत्र 'भ्रम धार्मिक—' इत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्य-
नतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्का न कार्या।
खलु विधिनिषेधावुत्पत्स्यमानाववेव निषेधविध्योः पर्यवस्यतस्तत्रैव
वसरः। यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषेधयो^२
अवगम्येते तत्र ध्वनित्वमेव।
तदुक्तम्—
'क्वचिद्बाध्यतया ख्यातिः क्वचित्ख्यातस्य बाधनम्।
पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु ॥'
अत्राद्ये मुख्यार्थस्यार्थान्तरे सङ्क्रमणं प्रवेश , न तु तिरोभा-
अत एवात्राजहत्स्वार्था लक्षणा। द्वितीये तु स्वार्थस्यान्त्यन्तं तिर-
त्वाज्जहत्स्वार्था।
विवक्षिताभिधेयोऽपि द्विभेदः प्रथमं मतः।
असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ॥ ४ ॥
विवक्षितान्यपरवाच्योऽपि ध्वनिरेसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्य-
व्यङ्ग्यश्चेति द्विविधः।
गोदावरीकच्छकुञ्जवासिना दृप्तसिंहेन ॥' इति सस्कृतम्। आश्रमस्थायाः कु-
गोदावरीकुञ्जरूपे सङ्केतस्थाने प्रत्यहं पुष्पावचयेन कृतसङ्केतभङ्गं स्वप्रेरितश्व-
द्रवेणाप्यनिवृत्त धार्मिकं प्रति तस्या एव दिनान्तरे उक्तिरियम्। गोदा गोदा-
यो दिनान्तरे त्वामुद्वेजयति स श्वा गोदावरीतीरनिकुञ्जवासिना दृप्तसिंहेन ह-
इत्यन्वयः। प्रकृते तात्पर्यविषयीभूतस्वैरविहारे। उत्पत्स्यमानौ उत्पत्स्य-
न्वयबोधौ। अन्वयबोधात्प्रागित्यर्थः। तदवसरो विपरीतलक्षणावसरः
चात्र लक्षणामूलध्वनेरवसरो नास्तीत्यर्थः। ध्वनित्वमभिधामूलध्वनित्वम् ॥ य-
तया विपरीतार्थे पर्यवसन्नतया ख्यातिरन्वयबोधः। ख्यातस्यान्वयबो-
यीभूतस्य बाधनं बाधोदयाद्विपरीतार्थपर्यवसानम्। लक्षणा लक्षणामूलो ध्व-
अभिधा अभिधामूलो ध्वनिः। अत्र लक्षणामूलध्वनौ। आद्येऽर्थान्तरसङ्क्रमि-
च्ये। द्वितीयेऽत्यन्ततिरस्कृतवाच्ये जहत्स्वार्था लक्षणेत्यनुषज्यते ॥ प्रथममि-
पश्चादस्यापरे भेदा वक्तव्या इति भावः। यत्र ध्वनौ। लक्ष्यक्रम इति।

  1. असंलक्ष्येति। सम्यग् न लक्षयितुं शक्यः क्रमः पौर्वापर्यं यस्य तादृशो र-
    यस्मिन्सः। स्फुटे प्रकरणे झटिति प्रतीयितेषु विभावादिभावव्यभिचारिषु महद्ध्यु-
    १. '-क्रमव्यङ्ग्य' ग २. 'लक्ष्यव्यङ्ग्यक्रमः पर ' ग. ३ ग पुस्तके तु 'विवक्षित-' !
    'द्विविध ' इत्यन्तं पाठो नास्ति