सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 412, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 412

चतुर्थः परिच्छेदः। २०९
यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्या-
र्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यम्।
यथा—
नि¹श्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते।
अत्रान्धशब्दो मुख्यार्थे बाधितेऽप्रकाशरूपमर्थं बोधयति। अप्रका-
शातिशयश्च व्यङ्ग्यः। अन्धत्वप्रकाशत्वयोः सामान्यविशेषभावाभा-
न्नार्थान्तरसंक्रमितवाच्यत्वम्।
यथा—
भम धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण।
गोलाइयकच्छकुडङ्गवासिणा दरिअसीहेण॥
सर्वथेति। मुख्यतावच्छेदकरूपेण त्यागो नतु रूपेण, अत्र दृष्टान्तेऽपि ज्ञेयः।
अर्थान्तरे मुख्यार्थिनि परिणमति तद्रूपेण वर्तते। अत्यन्ततिरस्कृतत्वात्
सर्वथा त्याज्यात्वात्॥ निःश्वासान्ध इति। निःश्वासेनेत्येवंरूपादृष्टेर्न बाध
नमित्यर्थः। मुख्यार्थे दृष्टिहानिरूपे प्रकाशनादावन्वयात्तदर्थिनः। अत्र वाच्यान्तरप्रवेशा-
त्सर्वेष्वर्थान्तरपदं मुख्यादर्थो लब्धः। सामान्यविशेषाभावाभावादिति।
दृष्टान्तीभावान्निरवकाशत्वाद्बाधको द्वयोरपि सामान्यविशेषभाव एवाङ्गीकार्यस्तस्माद-
न्यत्र भवति। यथा—'गङ्गायां घोषः' इत्यादौ मन्दाकिन्यादीनां विशेषाणां प्रवाह-
च सामान्यम्। तद्रूपत्वेऽपि मुख्यार्थस्य नाशदर्शनादिति। एवं सर्वत्रोपचारा-
स्पदादप्यधिकमेवेह तात्पर्यमिति ज्ञेयम्—इत्येवंरूपायास्तत्त्वज्ञानेऽप्यन्तर्भावः
यद्दर्शनेऽप्यशेषाणामेव नूनं साक्षादधिदैवततया तत्त्वमसीति वेदान्त-
वाक्यान्तरविरोधिनां न संशयितव्यम्। तदुक्तं 'मम प्रियेत्यादौ' इत्यादि निष्प्र-
पञ्चरूपत्वमेवोन्मूलयति—इत्याद्यनेकदूषणग्रस्तेऽस्मिन् दर्शने शिष्टानां नासक्तस्य
प्रवृत्तः—भम धम्मिअ इति। 'भ्रम धार्मिक विश्रब्धः स श्वा अद्य मारितस्तेन।