सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 410, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 410

चतुर्थः परिच्छेदः । २०९
यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्या-
र्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् ।
यथा—
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।
अत्रान्धशब्दो मुख्यार्थे बाधितेऽप्रकाशरूपमर्थं बोधयति । अप्रका-
शातिशयश्च व्यङ्ग्यः । अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावभावा-
न्नार्थान्तरसङ्क्रमितवाच्यत्वम् ।
यथा—
भम धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण ।
गोलाणइच्छकच्छकुडङ्गवासिणा दरिअसीहेण ॥
सर्वथेति । मुख्यार्थावच्छेदकस्यैव त्यागो नतु वृत्तस्य, एष तयोर्विशेषः ।
अर्थान्तरे शब्दार्थेभ्यः परिणमति लक्षण्या वर्तते । अत्यन्ततिरस्कृतत्वादिति
सर्वथा बाधनात् ॥ निःश्वासान्ध इति । निःश्वासेनान्धोऽप्रकाशो जातः क-
र्पेत्यर्थः । मुख्यार्थे चक्षुर्हीनरूपे प्रकाशबाधादन्धशब्दस्तद्वति । एवञ्चाप्रकाशस्वरूप-
तस्यैव धर्मान्तरस्य मुख्यार्थसंबन्धो लब्धः । सामान्यविशेषाभावाभावादिति ।
मुख्यार्थतावच्छेदकरूपत्यागादन्धशब्दो वाच्यान्तररूपतया एवावगत इत्यर्था-
न्तरपदं भवति । यथा—'उत्तानो दयितः कृतोऽत्र' इत्यादी 'उत्तान'पदार्थेऽस्त्यप्यपकर्ष-
च प्राधान्यम् । अत्रानन्धोऽप्यन्धवदाचरतीत्यर्थप्रतीतिः । एवं श्लाघ्यप्रशं-
साद्यारम्भप्रकरणेऽपि सर्वथा मुख्यार्थत्यागादत्यन्ततिरस्कृतवाच्यता ज्ञेया ।
यद्यप्यर्थान्तरेऽन्धाद्यर्थे परम्परयाऽस्ति संबन्धस्तथापि मुख्यार्थरूपेण नास्ति संबन्धः ।
इत्यतस्तद्विशेषदोषत्वं नास्तीत्याशयः । ननु 'भम धम्मिअ' इत्यादौ विधीय-
मानस्याप्यर्थस्य निषेधपरत्वमवगम्यते तदुत्पन्नत्वान्न तद्रूपं प्रतीयते इत्याह तथाचेत्यर्थः ।
प्रकृत—भम धम्मिअ इति । 'भ्रम धार्मिक विश्वस्तोऽसौ श्वाऽद्य मारितस्तेन ।

  1. निःश्वासेति । ...
    ...
  2. ...
    ...
    ...
    ...
    ...