सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 398, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 398

तृतीयः परिच्छेदः । १९३

पुष्टिस्तु महाभारतादौ द्रष्टव्या ।
निरहंकाररूपत्वादद्यावीरादिरेष नो ॥ २४९ ॥
दयावीरादौ हि नागानन्दादौ जीमूतवाहनादेरन्तरा मलयवत्याद्य-
नुरागादेरन्ते च विद्याधरचक्रवर्तित्वप्राप्तेर्दर्शनादहंकारोपशमो न दृ-
श्यते । शान्तस्तु सर्वप्रकारेणाहंकारप्रशमैकरूपत्वान्न तत्रान्तर्भावम-
र्हति । ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् । ननु
'न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा ।
रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु समप्रमाणः ॥'
इत्येवरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां
भावात्तत्र संचार्यादीनामभावात्कथं रसत्वमित्युच्यते—
युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः ।
रसतामेति तदस्मिन्संचार्यादेः स्थितिश्च न विरुद्धा ॥५०॥


'बीजीभूत-' इति पाठेऽपि बीजं वासना तच्छून्योकृतेत्यर्थः । करटः काकः ॥
तु शान्ते दयाद्यतिशयसम्भवेन दयावीरादिरेवायमित्यत आह—निरहंकाररू-
पादिति । आदिना धर्मवीरदेवताविषयरतिप्रभृतीनां ग्रहणम् । एष शान्त-
ः । तथा चाहंकारसद्भावतो दयादिरेव दयावीरादिरेवैकः । तदितः शान्तरस
न विशेषः । ततश्चेत्यन्वविशेषावधारणञ्च । नागानन्दे दयावीरादिप्रधाने ग्रन्थ-
शेषे ॥ न यत्रेति । द्वेषो रिपूणामपचिकीर्षा । रागः सुहृदामुपचिकीर्षा । इच्छा
सिद्धिसुततदुपायेच्छा । भावेषु पदार्थेषु लोष्टकौञ्चनादिविभावादिषु सत्सु राग-
ाराहित्येन समसविषमं प्रमाणं प्रतीतिर्येन । 'शमप्रधानः' इति पाठस्तु न मनो-
ः, अर्थासङ्गतेः । तादृशदशायां व्यभिचारिभावादीनामसम्भवात् । शम एव
यितया प्रधानं यत्र सः । आत्मस्वरूपापत्तिलक्षणायां परमात्मस्वरूपत्वप्राप्ति-
लक्षणायाम् ॥ युक्तवियुक्तेति । विषयेभ्यः प्रत्याहृत्य साक्षात्कर्तव्ये वस्तुनि मनो
वाय वर्तमानश्चिन्तासंतानवान् युक्तः । यस्य योगजधर्मसहकृतेन मनसा जिज्ञा-
सितवस्तुसाक्षात्कारो जायते । यश्च भूतेन्द्रियजयी अणिमाद्याः कामसिद्धीरीश्वरव-
श्याश्चेन्द्रियसिद्धीरासादितवान् समाध्या[---]ताः । यस्य च योगजधर्मस-

  1. स एवेति । तादृशशम एव स्वा[-------]भत इत्यर्थः ।

१ 'पुष्टि-' इति पक्तिका नास्ति ग पुस्तके । 'देः सकाशाद्भेद्माह' इत्यधिकं पुस्तके
३ 'नागानन्दादौ' इति पाठि- '-वाहनादौ' क-घ
५ आदि- शब्दो नास्ति क घ पुस्तकयोः ६ 'तदन्त- र्भवितुमर्हति' ग
८ 'नन्दे' घ ९ 'शमप्रधानः' क ख ग शान्ते
११ 'लोष्टकाञ्चनादि' इति पुस्तकान्तरे १२ 'राग-' इति पाठो नास्ति पुस्तकान्तरे
साहि० १७