सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 386, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 386

तृतीयः परिच्छेदः । १७५
द्वयोः प्रणयमानः स्यात्प्रमोदे सुमहत्यपि ॥ १९८ ॥
प्रेम्णः कुटिलगामित्वात्कोपो यः कारणं विना ।
द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः ।
उदाहरणम् । तत्र नायकस्य यथा—
'अलीअपसुत्तअणिमीलिअच्छ देसु सुहअ मज्झ ओआसं ।
गण्डपरिउम्बणापुलइअङ्ग ण पुणो चिराइस्सं ॥'
नायिकाया यथा कुमारसम्भवे संध्यावर्णनावसरे ।
उभयोर्यथा—
पणअकुविआणं दोह वि अलिअसुत्ताणं माणइल्लाणं ।
णिच्चलणिरुद्धणीसासदिण्णअण्णाणं को मल्लो ॥'
अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किंतु संभोगसंचा-
र्यस्यभावत्वम् ।
यथा—
'भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते ।
प्रेम्णि । ननु प्रमोदे सति कोप एव न भवति, कथं तत्र मानलक्षणसङ्गतिरित्यत
आह—प्रेम्ण इति । कुटिलगामित्वात् कुटिलनायकादिगतित्वात् । कारणमप-
राधादि । कुटिलस्य विनापि कारणं तत्सम्भावनया कोपो भवतीति भावः । यद्वा
कुटिलगामित्वाद् दुरवगमस्वभावत्वात् ॥ अलिअ इति । 'अलीकप्रसुप्तानिमी-
लिताक्ष देहि सुभग मह्यमवकाशम् । गण्डपरिचुम्बनपुलकिताङ्ग न पुनश्चिरयि-
ष्यामि ॥ इति संस्कृतम् । मम विलम्बे तव क्रोधो जात इति लक्ष्यते । पुनरेवं
विलम्बं न करिष्यामीति भावः । अत्रालीकसुप्ते नदस्य कौटिल्यम् ॥ पणअ-
कुवि इति । 'प्रणयकुपितयोर्द्वयोरप्यलीकसुप्तयोर्मानवतोः (दनोः) । निश्चलनि-
रुद्धनिश्वासदत्तकर्णयोः को मल्लः ॥' इति संस्कृतम् । मग्नो मल्लहङ्कारयोः ।
प्रियप्रसादननिरूपणमनुकूलव्यापारोऽनुनयः तत्पर्यन्तमसहत्वे । तं विनेव
बहुरागे चेत्यर्थः । अस्य प्रणयमानस्य । ईर्ष्या संप्रभूता, तस्या एव व्यभिचा-
रित्त्वेन सम्भवात् ॥ भ्रूभङ्ग इति । मानमेवेच्छौ सतीं प्रति नायिकाया उक्ति-
*१. '...' इति '...' इत्यत्र '...'
२. '...'