साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 278, कुल 506 में से
संदर्भ में पढ़ेंभूमिका । ५३
नैर्गुणि । नैर्गुणिन्विनिर्मुक्तं क्रिया विना भूरिणो भवति ॥ द्रव्यादपृथग्भूतो भवति
गुणो नियमनिर्विकल्पवान् । सत्ताऽऽख्यार्थोऽव्यभिचारिभावाद्द्विविधाय त्रेधा ॥ नित्यं
क्रियानुमेया व्यभिचारेण भवति भावार्थ । साऽऽख्याता द्वेधा सकर्मिकाऽकर्मिका
चेति ॥ निर्गुणितेऽगुणेष्वपि बहुषु द्रव्येषु चिन्नगानेषु । एकाकारा बुद्धिर्भवति यत
सा भवेज्जाति ॥” इत्येवं शब्दविभाग । एष एवालंकारिकाणामभिगतो जातिगुण-
क्रियाद्रव्याणामुल्लेखद्वारेण निबन्धनात् । शब्दोऽर्थो रसश्च गुम्फः । शब्दो
वाच्य , लाक्षणिकव्यङ्ग्यानां प्रागुपस्थानात्; अर्थो वाच्य , लक्ष्यव्यङ्ग्य-
तात्पर्यार्थ्या प्रागवगमनात्, गुम्फानुगुण्य इति व्यपदिश्यते । रसस्तु सर्ववादि-
नामादारास्पदं मुख्य एव । रसादिशब्दस्य रसादिप्रत्यायने संकेताभावानाभिधा-
व्यापार प्रभवति । अत एवाभिधेयेन अविनाभूतस्य प्रतीतिराहित्यलक्षणापि
नाक्रमते । वनिधापूर्वको हि लक्षणाव्यापार इति । अतएव च "साक्षात्सङ्केत-
विषयो मुख्य ॥ मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौण ।
मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्य ॥” इति सूत्र्यते । अथ तात्पर्याख्या
वृत्तिरपि संसर्गमात्रे विरतव्यापारा । इत्थगत्या अभिधादिपथातिशायिनी तुरीया
व्यञ्जनावृत्तौ रसादिवोधने स्फोटायनगतानुसारिभिरलंकारिकैरूरीकृता । यद्यपि
रसो न केनापि निह्नोतुं पार्यते तथापि तस्य बोधनव्यापारे वैमत्याद् विकल्पाः ।
व्यञ्जनावृत्तिप्रतिपाद्यो व्यङ्ग्यो हि वस्त्वलंकाररसादिलक्षणः, स तावत्प्रतीयमान
एव (छा० २३८ पृ० ) । अन्येनाप्यन्ववाचि—'मुख्याद्व्यतिरिक्तः प्रतीयमानो
व्यङ्गो ध्वनिः ।' ध्वनति, ध्वन्यते, ध्वननं चेति यथायोगमवधातव्यम् । अस्य
व्यतिरेकविधा, यथा खलु ध्वनिकारेण अङ्कुरिता, आलोककारेण पल्लविता;
लोचनकारेण पुष्पिता, तथैव प्रकाशकारेण फलिता, नान्येन केनापि कोऽपि
विशेषोऽद्यावधि वस्तुतोऽत्र प्रकाशि ॥
अथ प्रतीयमानो व्यङ्ग्यो ध्वनिरित्यपि रसादिवेदनभङ्गिमाप्रम्, न प्रत्येक-
मर्थान्तरम् । यथा खलु व्यवहारभूमौ वाच्यास्तात्पर्यार्थो लक्ष्यौ वेति । 'विभावानु-
भावव्यभिचारिसंयोगाद् रसनिष्पत्तिः' (छा० ७२ पृ०) इति सर्ववादिसम्मता
भारतीया रसनीवी । एतदुक्तं भवति—कारणादीना विभावनाव्यापारवत्त्वाद्
विभावादिपदाभिधाने दृष्टान्तमर्यादया विभावादिविभागलाभ । संयोगादिति सौत्र-
पञ्चम्या विभावानुभावव्यभिचारिण. समूहलम्वनतया रसं प्रति हेतुता प्रतिपन्नाः ।
तत्र शब्दोपहितरुपाणा विभावादीना व्यापाराद् उत्पाद्योत्पादक-गम्यगमक-पोष्य-
पोषक-व्यङ्ग्यव्यञ्जकरूपा भावा वादिमिरादृता. । रसबोधने निरूपितदृशा अभि-
धातात्पर्ये निरस्ते अपि पुनर्मोमासकमतेन लोल्लटादिभिरुत्प्रेक्ष्यमाणोऽभिधाया
दीर्घदीर्घतरो व्यापारो रसस्यानुकार्यगतत्वं च निरस्यते (सा. द. ८९ पृ० २५३
पृ०) “भट्टलोल्लटादयस्तु—रसस्य व्यङ्ग्यत्वमेवाङ्गीकुर्वन्ति” इति विवृतिम्रन्थस्तू-
पेक्ष्यः ( ८० पृ० ) एव संयोगादिति बुद्धो रसस्य विभावादेश्च उ. । ०५क
मुद्दूर निरस्तो मन्तव्य. । लक्षणापि निरस्तैव, यत्पुनस्तार्किकंमन्यैः र्था रा
महिमभट्टप्रभृतिभी रसोऽनुमाप्य इत्यास्थीयते, तदपि तस्यानुकर्तृगतत्वेन