सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 276, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 276

भूमिका । ३७
चार—' ( ३।२।४५-५० ) इत्यादिना पञ्चाप्युपदिष्टाः । एतेन पूर्वं त्रय एव
हेत्वाभासा आकलिताः, पश्चात् पञ्चत्वमुपनीता इति व्यक्तम् । अत्र 'विरुद्धसिद्धसं-
दिग्धमलिङ्गं काश्यपोऽब्रवीत्' इति वैशेषिक-पदार्थधर्मसंग्रहकारः प्रशस्तपाद-
चार्योऽपि संवादी । एवं वृत्ती जयनारायण-तर्कपञ्चाननोऽपि । तदेतन्महामहो-
पाध्याय-चन्द्रकान्तमहाचार्यः स्वभाष्यभूमिकायां स्पष्टमुक्तवान् । किंच, न्याय-
सूत्रापेक्षया वैशेषिकसूत्राणां प्रणयनशैलीसारल्यमपि तत्प्राचीनतामवगमयतीति
प्रत्यक्षं परीक्षकाणाम् । यदपि षड्दर्शनभूमिकायां महामहोपाध्यायभीमा-
चार्येण विपरीतमुल्यते तन्न हृदयारोहीति द्रष्टव्यम् ।
प्रमाणै रर्थपरीक्षणं न्यायः, नीयते प्रमेयसिद्धिरनेनेति वा । एषोऽक्षपादा-
परनामा महामुनिना गौतमेन व्यरचि । इहान्तरात्मपुरस्कारेण पदार्थतत्वज्ञाना-
न्निःश्रेयसाधैन्तकी परमात्मचिन्ता । अत्र पञ्च अध्यायाः । प्रत्यध्यायमाह्निकद्व-
यम् । सर्वसूत्राणि ५२८ । भगवतो गौतमस्य समये आयुर्वेद इव मन्त्रखण्डोऽपि
दृष्टप्रत्यय आसीत्, तत एव दृष्टान्तविधया द्वयोरप्युपादानं वेदप्रामाण्यादरे कृतम्
तम्—'मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् २।१।६८।' इति । सारस्वा-
द्विषेयोपामन्त्रिता मन्त्रा लभ्यन्ते । आगम च—'आगतं शिववक्त्रेभ्यो गतं च गिरिजामुखे ।
मतं श्रीवासुदेवस्य तस्मादागममुच्यते ॥' इति शब्दार्थचिन्तामणौ निरुक्तम् ।
वत्सानि-तत्पुरुषा घोर-सद्योजात-वामदेवे-शान्संज्ञामि पूर्वदक्षिणपश्चिमोत्तरोग्धैरू-
पानि पञ्च । तत्पुरुषादिरूपप्रतिपादका मन्त्रास्तु तैत्तिरीये आरण्यके दशनप्रपा-
ठके श्रूयन्ते ॥
सांख्यं योगश्चेति समानतन्त्रे । तत्र तन्त्रांशं रमानौ यश्च स तत्त्वप्रवचन
संप्रदापरनामा नारायणस्यावतारेण देवहूतिनन्दनेन महामुनिना कपिलेनोपदिष्टः ।
तच्च बोद्धव्यम्—'पञ्चमे कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं
तत्त्वग्रामविनिर्णयम् ॥' इति भागवते ( १ स्कं. ३ अ. १० श्लो. ) । तथा-'इह
शश्वन्निवृत्ताविंशित्वादिरूपेण विवृतोऽभूता सांख्यप्रवक्ता ह वै नारायणो
महामुनिना कपिलेनोपदिष्टः । तस्य बोद्धव्यम्—'एतावन्मात्रमेवेह लोकेऽस्मिन् पुंसि
रन्यम् । यन्मनः शान्तयेऽनर्थहेतुर्निरोधनम् । यदि परमार्थं कपिले
प्रादुर्बभूव यदा । १।२८ सा कपिलो नाम सांख्यप्रवर्तकः । इति भागवते
विनिर्णयस्तु पूर्वोक्तः सङ्गच्छते । 'ततः प्रवृत्ते यन् महर्षिः स कपिलो
यदुद्दिष्टमाविर्बभूवेति महाभारतात् प्रतीमः ।' इत्यनेन सम्मन्येते देवीभागवते
एतेन तत्प्रवृत्त्यहंकारस्य सात्त्विकस्य द्वैविध्यं च स्पष्टीकृतमेव । तत्र षड-
ध्यायीग्रन्थः, द्वितीये षष्ठेऽध्याये सांख्यसारः सङ्गृहीतः । श्रीमद्विष्णु-
दर्शने पातञ्जलेऽपि द्वे द्वितीयेऽपि षड्गुणे 'स पूर्वेषामपि गुरुः कालेनानवच्छेदात्'
पातञ्जलदर्शने समाधिपादे २६ सूत्रे इति भगवतः सूत्राणि ५२९,
षड्ध्यायी तु २२ सूत्राणि ।
१. गौत०, सं० टी० टीका, पृ० ८७ । २. वात्स्यायनभा० पृ० ४०२ ।
३. त० सू० ४