सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 273, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 273

२८ साहित्यदर्पणे
वर्षाणां द्वादशशती षष्टिः षड्भिश्च संयुता ।
भूभुजां कालसंख्यायां तद्द्वापञ्चाशतो मता ॥'
इत्ययं द्वापञ्चाशतो राज्ञा काल = १२६६ स च न सवदति। एतदुक्तं भवति-
यदि नाम प्रकृतोपयुक्ता सप्तर्षीणां गतिर्नोपलभ्यते, तर्हि तया युधिष्ठिरकालनिर्ण-
योऽशक्यः । अत्र सिद्धान्ततत्त्वविवेके कमलाकरभट्टाः ।
'अद्यापि कैरपि नरैर्गतिराश्चर्य्य-
र्दृष्टा न या च कथिता किल संहितासु ।
तत्काव्यमेव हि पुराणवदत्र तज्ज्ञा-
स्तेनैव तत्त्वविषयं गदितुं प्रवृत्ताः ॥”
( भग्रह. ३२ )
इत्यादि निर्णायन्ति । तथा सिद्धान्तदर्पणे चन्द्रशेखराचार्या अपि-
'सप्तर्षीणां ध्रुवः प्राग्भिर्नोक्तः संचारसंभवात् ।
तथाप्यनुभवात्तेषां व्यवस्था क्रियतेऽधुना ॥
पूर्व्वाग्रं शकटाकारमुदक्स्थमुडुसप्तकम्।
सप्तर्षिमण्डलं प्रोक्तं व्यक्तं विश्वनमस्कृतम् ॥
तत्पूर्व्वान्तररेखाग्रे मरीचिः पश्चिमे ततः ।
वसिष्ठोऽरुन्धतीयुक्तस्तत्पश्चादङ्गिराः स्थितः ॥
तत्पश्चाच्चतुरस्रस्य शम्भुदिश्यग्निरस्य तु ।
पुलस्त्यो दक्षिणे तस्य पश्चिमे पुलहः स्थितः ॥
क्रतुस्तदुत्तरस्थानस्तत्रोक्तौ पुलहक्रतू ।
ध्रुवसूत्रेण यल्लग्नौ तद्दक्षस्या महर्षयः ॥
कथ्यन्ते सांप्रतं (४९७०) सिंहे भूभुजां(२१)शान्तगौ हि तौ।
कालांशैर्विश्वकैः १३ प्राच्यां पुलस्त्यो वर्तते ततः ॥
तन्मन्दैः सायकैः (५) रनिरङ्गिरा नवभि(९)स्ततः ॥
ततोऽष्टाभि(८)र्वसिष्ठोऽस्मान्मरीचिर्वर्त्ततेऽष्टभिः(८) ॥'
इत्येवमादि सङ्क्षेपादुक्त्वान्ते-
'प्रत्यक्षं प्राग्गतिः प्रोक्ता पुराणैरप्यलौकिकाः ।
नैषां नो निश्चिता पूर्व्वानुभवाददीनान्मया ॥'
इत्युपसञ्जह्रुः । एतेन सर्व्वेषागमावात् ६५३ एतावत्कालिकगणनं तदानीं
असम्भवमेव । दन्ते हि कलेः ४० वर्षानन्तरमेव ६५३ वर्षानन्तरमपि
प्रवृत्त्यानुगतमेव तत एव समर्थितवत् ( लौकिकाब्दः ) इव कलियुगसंवत् ( यु०
सं० = सप्तर्षिसंवत् ) इत्येवं द्वयमपि अयमेवदकमेव । नहि ३१७५-
२५२२ = ६५३ तावन्मात्रेण अनेकग्रन्थादृष्टवचनादाढ्य, वा भारतसंग्रामस्य,
निर्वृतिसमयस्य, वा सर्वाभिमतकालस्य सङ्घटनार्थमेकस्य युधिष्ठि-
रसंवत्सरस्य बहुव्यत्ययप्रवादो बोद्धुं शक्यते । तस्मात्—