साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 266, कुल 506 में से
संदर्भ में पढ़ेंसुपलभ्यन्ते । तथाहि-छान्दोग्ये "यो ह वै वसिष्ठं वेद, वसिष्ठो ह स्वानां
भवति. वाग्वाव वसिष्ठः" इति वसिष्ठपदार्थव्युत्पादनम् । एवमन्येषामपि
व्यङ्ग्या द्रष्टव्या । निरुक्ते "-इन्द्रशत्रुः तस्को वृत्रो मेघ इति नैरुक्ताः, त्वाष्ट्रोऽ
सुर इत्यैतिहासिका अपां च ज्योतिषा च मिश्रीभावकर्मणो वर्षकर्म जायते तत्रोप-
मार्थेन युद्धवर्णा भवन्ति, अहिवत्तु खलु मन्त्रवर्णा ब्राह्मणवादाश्च-" (२. ५.
२) इति वृत्रवधख्यातत्त्वम् । एवं प्रजापतेः सुतानुगमनम्, इन्द्रस्य चाहल्या-
भिगमनम्, इत्यादि नियतार्थतया नीयमानमुपलभ्यते । श्रूयते हि ऋक्संहिता-
यां 'रुशद्गवां उषसो न जार -' ( १. ५. १३ ) इति । 'उषो न जारः
पृथुपाजो-' ( ५ ३ १३) इति च । एतदेव पुनर्ऋक्संहितायां ऐतरेये
ब्राह्मणे-'प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद् दिवमित्यन्य आहुरुषसमित्यन्ये
तामृश्यो भूत्वा रोहितं भूतामभ्यैत्- इति कथारूपेण निरूपितम् । अत्र कैलि-
ङ्गिप्रभवभाष्यवार्तिककाराः - 'प्रजापतित्वादग्रजापालनाद्विवारादादित्य एवोच्यते।
स चारुणोदयवेलायामुषसमनुसञ्चरन्मैथुत् । सा तदागमनादेवोपगता इति स्युर्दुहितृ-
रूपेण व्यपदिश्यते । तस्यां चारुणकिरणात्मबीजनिक्षेपात्स्त्रीपुरुषयोगवदुपचर-
न्त्याहुः । यथैवं 'प्रजानाथं त्वाद्यं प्रथममथिव स्वां दुहितरं मृगे रोहित्भूतां
रिरंसुमियमभ्यस्य वपुषा । धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं त्रसन्तं तेऽद्यापि
त्यजति न मृगव्याधरभसः ॥' इति नक्षत्रवृत्त्युसत्तिनिरूपणपरितं मन्दिकेश्वरवच-
नपि द्रष्टव्यम् । एवमेव ऋक्संहितायां 'उदीरय पितरा जार आमर्ग-' ( ३. ३.
१०) इति । एतन्जारपदमालम्ब्य तैत्तिरीयारण्यके ' -वै राजमन्दिन्,
अहल्यायै जार, कौशिकब्राह्मण, गौतमब्रुवाण-' ( १. १२ ) इति पाणिनि-
सूत्रेण शब्दानित्यत्वे ( ६ । २ । २७) तथा शतपथब्राह्मणे ( ३. ३. ४.
१८ ) । दर्शितोदाहरणाइह वाल्मीकीये रामायणे द्रष्टव्यम् ( १. ४८-४९ )
अत्र निरुक्तकाराः - 'आदित्योऽत्र जार उच्यते रात्रेर्जरयित्रा-' ( ३. ३.
१४) । वार्तिककारा अपि-'एवं चन्द्रात्मको दर्शनादभिनिष्क्रान्तत्वाच्च
रात्रिं च रहसि लीयमानामभिसरेत्स्यादुपपात्यागाद् द्यावाचन्द्रमसो रौहिण्य-
र्थात् काम इतीच्छेतिविधेयत्वावित्य एषामनङ्गजराद्युच्यते, न तु पृथिवीपति-
रिन्द्र इति दिवः । एषो पिता वेदा इति स्थितम् ॥
यत्तु पुनरुच्यते- 'ऋक् शाखाः सहस्रं तथा यजूंषि शते । उक्थानि
दशधा चाथर्वणानि तथा ( पु. र. पृ० ६० ; पु. प्र. पृ० ३;
अ. प्र. पृ० ९९ द्र.) इति। ऐतरेये- 'ऋग्भिः पूर्वाह्णे दिवि देव ईयते यजु-
र्वेदे तिष्ठति मध्यन्दिनं' (५. ४. ७) इति । एतच्च श्रुतिषु - ऋग्विदध्वर्युरथर्व-
यवं साम्नां समाहारम् । पुरोः प्रतीच्योरथवाऽप्यनुष्ठातुम् ' ( प्र. ९ )
इत्यतिशयेन देवतानामेव च प्रतिपादनान्नोचे, तदपि-यथाऽऽहुः मूर्धातः
पदगमनात्पादपादित्यात् नियतं दैवतमुपपादयेयुः । तथा चेतिहास-
दर्शनादिति सूत्राणि सन्ति । यत्र द्वयोश्च संवत्संवादो दृश्यते च तदाख्यान-
रूपमपि मन्यते । तस्मात् सुस्पष्टमेतदुच्यते- तथा देवानां प्राणाः समूहाः
ऋ० भू० २