सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 219, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 219

३८० साहित्यदर्पणे
अस्यार्थः प्रागेव स्फुटीकृतः ।
तद्विशेषानाह—
ते पुनः पञ्चधा मताः ।
पदे तदंशे वाक्येऽर्थे संभवन्ति रसेऽपि यत् ॥ १ ॥
स्पष्टम् ।
तत्र
दुःश्रवत्रिविधाश्लीलाऽनुचितार्थाप्रयुक्ताः ।
ग्राम्याप्रतीतसंदिग्धनेयार्थानिहतार्थताः ॥ २ ॥
अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिता ।
अविमृष्टविधेयांशभावश्च पदवाक्ययोः ॥ ३ ॥
दोषाः केचिद्भवन्त्येषु पदांशेऽपि पदे परे ।
निरर्थकाममर्थत्वे च्युतसंस्कारता तथा ॥ ४ ॥
परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् ।
यथा—
'कार्तान्त्ये यातु तन्वङ्गी कदानङ्गमवंवदा ॥'
अस्यार्थ इति । प्रागेव प्रथमपरिच्छेदे एव । श्रुतिदुष्टादेः शब्दार्थोभयधर्मत्वेऽपि
रसापकर्षत्वमिति नाव्याप्तिरिति भावः ॥ तद्विशेषान् दोषविभागान् । ते दोषाः
तदंशे पदांशे ॥ दोषविशेषान्निर्दिशति—दुःश्रव इति । अयं भावप्रत्ययेन
निर्देशः । दुःश्रवत्रिविधाश्लीलेति समस्तपाठे भावप्रत्ययस्य सर्वत्रान्वयात्
पृथग्दोषेषु ॥ उद्देशक्रमेण दुःश्रवत्वादिलक्षणं सोदाहरणमाह—परुषेति । केषां-
चित्स्पष्टत्वाद्बुदाहरणस्यैव दर्शनम् । 'श्रुतिपतितमात्रं यद्वैषम्यमवदति तत्तद् दुःश्रवं सर्वथा
हेयमिति प्रथमं तदुपन्यासः' इत्यन्ये । परुषवर्णता वर्णानां पारुष्यं पुनरुपरिष्टा-
र्गोर्भाविष्यति । श्रोतॄणां श्रोत्रावच्छेदेन दुःखजनकत्वं श्रुतिदुःखावहम् । श्रुति-
रित महद् यावद् श्रुतिदुःखावहम्, तत्त्वं वा । कार्तान्त्यमिति । अत्र तस्य
रेफयोर्योर्गेन पारुष्यम् । तत्प्रयुक्तं पदस्य दुःश्रवत्वं साश्रयपदमपनीयमाने प्र-
मत्तस्य शृङ्गारमयस्य प्रकर्षप्रतीतिं प्रतिबध्नाति । इदमेव 'श्रुतिकटु' इत्यभिधीयते
नन्वेतनपदानपारुष्यमेव न तु पदपारुष्यमिति चेन् । न । यावद्वटपटशिरोमणिका-

  1. कार्तान्त्यमिति । 'अनङ्गमङ्गद्गृहापाङ्गभङ्गिरङ्गिभिः । आलिङ्गितः स दयितां
    कार्तान्त्यं लभते कदा ॥' इति प्रकाशोदाहरणानुरूपम् ॥
    १. 'भवन्' घ-पुस्तके नास्ति. २. 'प्राप्यः क. ३. 'दारम्' ङ-सु-ग-प.