सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 211, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 211

३६० साहित्यदर्पणे
अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् । ‘नटादित्रितयविषयमेवेद’
दिति कश्चित् ।
प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य च्छलना छलम् ।
यथा वेण्याम्—भीमार्जुनौ—
कर्ता द्यूतच्छलानां, जतुमयशरणीद्द्दीपनः, सोऽभिमानी
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् ।
कृष्णाकेशोत्तरीयव्यपनयनपटुः, पाण्डवा यस्य दासाः
क्वास्ते दुर्योधनोऽसौ कथयत, न रुषा द्रष्टुमभ्यागतौ स्वः ॥'
अन्ये त्वाहुश्छलं किंचित्कार्यमुद्दिश्य कस्यचित् ॥ २५८॥
उदीर्यते यद्वचनं वञ्चनाद्धास्यरोपकृत् ।
वाक्केलिर्हास्यसंबन्धो द्वित्रिप्रत्युक्तितो भवेत् ॥ २५९ ॥
द्वित्रीत्युपलक्षणम् । यथा—
‘भिक्षो मांसनिषेवणं प्रकुरुषे, किं तेन मद्यं विना
मद्यं चापि तव प्रियं, प्रियमहो वाराङ्गनाभिः सह ।
वेश्याप्यर्थरुचिः कुतस्तव धनं, द्यूतेन चौर्येण वा
चौर्यद्यूतपरिग्रहोऽपि भवतो, नष्टस्य कान्या गतिः ॥'
केचित्— 'प्रक्रान्तवाक्यस्य साकाङ्क्ष्यैव निवृत्तिर्वाक्केलिः' इत्याहुः।
अन्ये च ‘अनेकस्य प्रश्नस्यैकमुत्तरम् ।
अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं मतम् ।
‘तया विरहिता नया स्या' इत्युत्तरम् ॥ त्रिगतपदव्युत्पत्तिमाह-नटादीति ।
आदिना नटीप्रतिनटयोर्ग्रहणम् । इदं त्रिगतम् ॥ छलमाह-प्रियाभैरिति ।
प्रियतुल्यैरित्यर्थः । छलना वञ्चना ॥ जतुमयशरणीद्द्दीपनं जतुगृहदाहकः ।
अङ्गराजस्य कर्णस्य । कृष्णा द्रौपदी तस्या उत्तरीयस्योपरिवस्त्रस्य व्यपने पटुः । प्रां
भवान् । 'आवाम्' इति शेषः ॥ वाक्केलिमाह-वाक्केलिरिति । द्वे वा त्रीणि वा
प्रत्युक्तयस्तथा । गतागतप्रत्यागतानामित्यर्थस्य प्रत्ययनात् । अनेकेषां प्रश्नाना-
मेकमुत्तरमिति वाक्केलिनिरुक्तिरित्यन्ये ॥ अधिमलमाह-अन्योन्येति । पर-

  1. प्रतिरिति पाठान्तरम् ॥ 2. 'कथयत द्रष्टुं तमायातावेव' इति वेणीसं० पाठः
  2. 'द्वित्रिभिः पदैरुक्तिः' इति पाठान्तरम् ॥