साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 204, कुल 506 में से
संदर्भ में पढ़ें... यथा वेण्याम्—दुर्योधनभ्रान्त्या भीमं प्रति 'युधिष्ठिरः—दुरात्मन्,
वनेहतक—' इत्यादि ।
संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते ।
यथा मम चन्द्रकलायाम्—'राजा—प्रिये,
'अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा ।
( आत्मानं निर्दिश्य । )
अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥'
गुणानां कीर्तनं यत्तु तदेव गुणकीर्तनम् ॥ १९२ ॥
यथा तत्रैव—
'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यार्थि—' इत्यादि ( ११० पृ. ) ।
स लेशो भण्यते वाक्यं यत्सादृश्यपुरःसरम् ।
यथा वेण्याम्—'राजा—
हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥'
मनोरथस्त्वभिप्रायोक्तिर्भङ्ग्यन्तरेण यत् ॥ १९३ ॥
यथा—
'रतिकेलिकल. किंचिदेष मन्मथमन्थर. ।
पश्य लुञ्च समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥'
विशेपार्थोऽहविस्तारोऽनुक्तसिद्धिरुदीर्यते ।
तादृशजनितभ्रमात् । 'अनुभूतस्य' इति पाठे सादृश्यादनुभूतस्य भ्रमानिवर्त्तकस्येत्यर्थः ॥
संक्षेपात् सविशेषात् । अन्यार्थे वर्णान्तरस्थाने । प्रयुज्यते निर्दिश्यते ॥ अय-
मिति । अत्राप्यमिलनेन आत्मा अन्यो वेति न विशेषोपपन्नम् । अत एवार्थान्तर-
स्थाने आत्मन प्रयोग ॥ सादृश्यपुरःसरं सादृश्यतापर्यन्तम् । गाङ्गेये भीष्मे ।
सैवेति तत्तुत्यभावतया तात्पर्यम् । यथा वृद्धस्य हतेन पाण्डववृद्धा हता अन्य-
स्यापि यादृशंस्थानविभक्तिभेदंयुक्तनिमित्तेन भविष्यतीति भावः ॥ उक्तिर्भ-
ङ्ग्यन् । भङ्ग्यन्तरेण प्रकारान्तरेण ॥ रतिकेलि दम्पतिति । अज्ञा स्त्री-
...केलिलक्षकम् । समालम्भादाच्छादितत्वात् । कादम्बः हंसः । अत्र
प्रियार्थ लम्पटस्य प्रियसन्दर्भं वर्णयता नृपेण तस्य प्रियचुम्बनप्रिया-
सूचित् । विशेपेति । रूपलावण्यादिव्यञ्जनं विशेषः तस्मै प्रयोजनं विशेषः ।
१. 'शिखिनिम्' पाठः २. 'मन्मथमन्मथः' पाठः ३. 'सौगन्धिकान्ना' द्वापातः.