साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 202, कुल 506 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः । ३४३
यथा वेण्याम्-दुर्योधनभ्रान्त्या भीमं प्रति 'युधिष्ठिरः-दुरात्मन् .
धार्तराष्ट्रहतक-' इत्यादि ।
संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते ।
यथा मम चन्द्रकलायाम्-'राजा-प्रिये,
'अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेल्वानि सुधा ।
( आत्मानं निर्दिश्य । )
अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥'
गुणानां कीर्तनं यत्तु तदेव गुणकीर्तनम् ॥ १९२ ॥
यथा तत्रैव-
'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि-' इत्यादि ( २१० पृ. ) ।
स लेशो भण्यते वाक्यं यत्साङ्ख्यपुरःसरम् ।
यथा वेण्याम्-'राजा-
हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥'
मनोरथस्याभिप्रायस्योक्तिर्भङ्गनतरेण यत् ॥ १९३ ॥
यथा-