सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 200, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 200

षष्ठः परिच्छेदः । ३४३
यथा वेण्याम्-दुर्योधनभ्रान्त्या भीमं प्रति 'युधिष्ठिरः-दुरात्मन्
धनहतक-' इत्यादि ।
संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते ।
यथा मम चन्द्रकलायाम्-'राजा-प्रिये,
'अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा ।
(आत्मानं निर्दिश्य ।)
अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥'
गुणानां कीर्तनं यत्तु तदेव गुणकीर्तनम् ॥ १९२ ॥
यथा तत्रैव-
'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि-' इत्यादि ( ११० पृ. ) ।
स लेशो भण्यते वाक्यं यत्सादृश्यपुरःसरम् ।
यथा वेण्याम्-'राजा-
हते जराति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥'
मनोरथस्त्वभिप्रायस्योक्तिर्भङ्ग्यन्तरेण यत् ॥ १९३ ॥
यथा-
'रतिकेलिकलं किंचिदेष मन्मथमन्थरः ।
पश्य सुभ्रु समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥'
विशेषार्थोहि विस्तारोऽनुक्तसिद्धिर्दुदीर्यते ।
दृष्टजनितभ्रमात् । 'अनुभूतस्य' इति पाठे साह्लादमनुभूतस्य अनर्थापदस्त्वेत्यर्थः ॥
संक्षेपात् अविशेषात् । अन्यार्थे वर्ण्यान्तरस्थाने । प्रयुज्यते निर्दिश्यते ॥ अय-
मिति । अत्राप्यविलिखेनेन आत्मा अन्यो वेति न विशेषस्तन्नम् । अत एवार्थान्तर-
स्थाने अन्यस्य प्रयोगः ॥ सादृश्यपुरःसरं सादृश्यतात्पर्यकम् ॥ गाङ्गेये भीष्मे ।
सैवेति तत्तुल्यश्लाघ्यता तात्पर्यम् । यथा वृद्धस्य छलेन वधाह्रद्युक्ता तथा बला-
न्वतपि बालस्यैकान्तेऽस्मिन्मर्मभेदुनिर्दन्ते भविष्यतीति भावः ॥ उक्तिर्भ-
ङ्ग्यन्तरेण सादृश्यप्रकारिणा ॥ रतिकेलिं वदन्ती स । गङ्गा रवै
नेतिञ्जलं पश्य न । समालम्भादङ्गरुचिस्पृष्टम् । कादम्बः कलहंसः । अद्य
प्रियार्थे कदम्बस्य प्रियाचुम्बनं वर्णयता नायकेन स्वस्य प्रियाचुम्बननिद्राजः
सूचितः ॥ विशेषेति । स्वसत्त्वप्रसिद्धपदार्थं विशेषं तस्य प्रयोजनं निर्दिशन् ।
१. 'अन्विष्येद्' क० २ 'सम्बन्धः' घ ३ 'विशेषार्थेऽप्यनुक्ते' इत्येवं दृश्यते.