सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 198, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 198

षष्ठः परिच्छेदः। ३४३
यथा वेण्याम्—दुर्योधनभ्रान्त्या भीमं प्रति 'युधिष्ठिरः—दुरात्मन्,
र्धनहतक—' इत्यादि ।
संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते ।
यथा मम चन्द्रकलायाम्—'राजा—प्रिये,
'अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा ।
( आत्मानं निर्दिश्य । )
अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥'
गुणानां कीर्तनं यत्तु तदेव गुणकीर्तनम् ॥ १९२ ॥
यथा तत्रैव—
'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि—' इत्यादि ( ११० पृ. ) ।
स लेशो भण्यते वाक्यं यत्साहश्यपुरःसरम् ।
यथा वेण्याम्—'राजा—
हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥'
मनोरथस्त्वभिप्रायस्योक्तिर्भङ्ग्यन्तरेण यत् ॥ १९३ ॥
यथा—
'रतिकेलिकल. किंचिदेष मन्मथमन्थर ।
पश्य मुग्धे समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥'
विशेषार्थोहविस्तारोऽनुक्तसिद्धिरुदीर्यते ।


तादात्म्यजनितभ्रमात् । 'दुःश्रुत्सन्न' इति पाठे मादृशपादशुश्रूषणस्य अमनिपदसेवेत्यर्थः ॥
संक्षेपात् अचिरेणात् । अन्यार्थे अर्थान्तरस्थाने । प्रयुज्यते निर्दिश्यते ॥ अय-
मिति । अयमभिलषितेन दात्वा लभ्यो देति न विशेषकृपणम् । अतः एवार्थान्त-
स्थाने आत्मनः प्रयोगः ॥ सादृश्यपुरःसरं सादृश्यप्रतिपादनम् ॥ गाङ्गेये भीष्मे ।
सैवेति तत्तुल्यं श्लाघ्या तद्वर्णनम् । दूतो यद्यपि छालेन भगवद्रूपं रूपं धृत्वा पाण्ड-
वानामपि दातरस्मिन्वह्नेऽग्निनाऽप्यङ्गिभिर्हन्ते भविष्यतीति भावः ॥ उक्तिर्भ-
ङ्ग्यन्तु । भङ्ग्यन्तरेण गूढार्थेनैव ॥ रतिकेलि इत्यपि न० । यथा मुग्धे
जैपिति पाठः । समालम्भादङ्गरागात् । कादम्बः हंसः । अत्र
प्रियायै दातव्यस्य प्रियचुम्बनं दर्शयित्वा नाटकेन स्वस्य प्रियचुम्बनमभिप्राय-
मुक्तिः ॥ विशेपेति । रसातपत्रादिपदार्थेषु विशेषे तस्य प्रयोजने चेदित्यर्थः ।
१ '...' २ '...' ३ '...'