सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 156, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 156

चतुर्थः परिच्छेदः । २०९
यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्या-
र्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् ।
यथा-
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।
अत्रान्धशब्दो मुख्यार्थे बाधितेऽप्रकाशरूपमर्थं बोधयति । अप्रका-
शातिशयश्च व्यङ्ग्यः । अन्यत्वाप्रकाशत्वयोः सामान्यविशेषभावभावा-
न्नार्थान्तरसङ्क्रमितवाच्यत्वम् ।
यथा-
भम धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण ।
गोलाणइकच्छकुडङ्गवासिणा दरिअसीहेण ॥
सर्वथेति । मुख्यादानुद्देश्येन त्यागो नतु दृश्यस्य, एव दूरोक्तिः स्यात् ।
अर्थान्तरे शब्दादेभिः परिणमति लक्षण्या वर्तते । अत्यन्ततिरस्कृतत्वात्
सर्वथा बाधत्वात् ॥ निःश्वासान्ध इति । निःश्वासेनाऽप्रकाश...
रूपेत्यर्थः । मुख्यार्थे गृहीतस्य प्रकारस्यापचन्दनादि० । एवं सकलकान्ता०