साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 153, कुल 506 में से
संदर्भ में पढ़ें२०२ साहित्यदर्पणे
रौद्राभासो यथा—
'रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहु-
र्मुक्त्वा कर्णमपेतभीर्धृतधनुर्बाणो हरेः पश्यतः ।
आध्मातः कटूकोक्तिभिः स्वमसकृद्दोर्विक्रमं कीर्तय-
न्नंसास्फोटपटुर्युधिष्ठिरमसौ हन्तुं प्रवृत्तोऽर्जुनः ॥'
भयानकाभासो यथा—
अशक्नुवन्सोढमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥'
स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः । एवमन्यत्र ।
भावाभासो लज्जादिके तु वेश्यादिविषये स्यात् ॥ २६६॥
स्पष्टम् ।
भावस्य शान्तावूदये संधिमिश्रितयोः क्रमात् ।
भावस्य शान्तिरुदयः संधिः शबलता मता ॥ २६७ ॥
रक्तोत्फुल्लेति । कर्णं सूतपुत्रं प्रतिशरम् । 'हरे' इत्यनादरे षष्ठी । पश्यतः
कृष्णमनादृत्येत्यर्थः । आध्मातो दृप्तः । 'कटूकोक्तिभि' इत्यत्र 'अनले' इति
रूपकं व्यङ्ग्यम् । स्वं स्वकीयं स्कन्धस्य करेणाघातोऽंसास्फोटस्तत्र पटुः । तस्य
रौत्त्यर्थे । अत्र ज्येष्ठभ्रातरि गुरौ रोषोऽनुचितः ॥ अशक्नुवन्निति । यस्य राज्ञः
पश्य । कौशिक उल्लूकः । इन्द्रः पेचकश्च । अत्रानौचित्यं दर्शयति—स्त्रीति ॥
भावाभास इति । प्रथमादिपदेन चिन्तादीनां द्वितीयादिपदेनाननुरागिण्यादीनां
ग्रहणम् । यथा—'नैवामुयाकरमुखी तरलायताक्षी मा स्मेश्योनतगतिमित्र...
- भावस्येति । भावस्य शान्तिर्नाशः । स चोत्पत्तिकालप्रविष्ट एव । उत्तर
उत्पत्तिः । मदिराद्युत्थानविभूतयोरन्योन्याभिभावनयोग्ययोः समानाधिकरणम्, ...
एकदेशवृत्तिरेकविशिष्टेऽन्यविशिष्टत्वम् । शबलता बाध्यबाधकभावापन्नानामुदयादीनां
वा संप्लवः व्यामिश्रत्वम् । एकत्रान्यवृत्तिजनकज्ञानगोचरत्वमिति यावत् । औत्सुक्य-
द्वाधहर्षः ॥ - रक्तेति । कौरवेषु कर्णं सूतपुत्रं प्रत्यपगतभीः सन् क्रीता 'अग्नि' इति शेषः । तत्र तदनु
प्रवृत्तोऽर्जुनोऽपराधे इति भीतिं प्रवृत्तान् निवारयति । तथा यतः दैवं हरिं
पश्यतः—निरीक्षेण पश्यति । अत्र नीचादिरेव मैत्री कृतं दैवेन देवं हरिं, व्योम्नि स्थिते
हरौ न प्रतिभूपानं कृतम् । पूर्वमपि तथा सन्न रथोद्धृतैर्महदौर्बल्यं युधिष्ठिरः, न
तस्य स्वपित्रे भ्रात्रे अनुज्ञाते हेतूः प्रवृत्तः । अत्र ज्येष्ठभ्रातरि चानादरम् । रौद्ररस-
व्यक्तिनिमित्तत्वादननुगुणत्वाविशेषादाभास भावः, तथाहि रौद्रस्याभासोऽयम् ।