सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 130, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 130

तृतीयः परिच्छेदः । १७१
दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ॥ १८८ ॥
श्रवणं तु भवेत्तत्र दूतवन्दिसखीमुखात् ।
इन्द्रजाले च चित्रे च साक्षात्स्वप्ने च दर्शनम् ॥ १८९ ॥
अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंप्रलापाश्च ।
उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः १९०
अभिलाषः स्पृहा चिन्ता प्राप्त्युपायादिचिन्तनम् ।
उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि ॥ १९१ ॥
अलक्ष्यवाक्प्रलापः स्याच्चेतसो भ्रमणाद्भृशम् ।
व्याधिस्तु दीर्घनिःश्वासपाण्डुताकृशतादयः ॥ १९२ ॥
जडता हीनचेष्टत्वमङ्गानां मनसस्तथा ।
शेषं स्पष्टम् ।
क्रमेणोदाहरणानि—
'प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया-
स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि ।
तस्य निरुक्तप्रकारचतुष्टयानन्तर्भावात्स्यात्त्याभावेन तत्र सामान्यलक्षणस्यातिव्याप्ति-
प्रसङ्गात् । तत्र पूर्वरागादिषु । मिथ इति । अन्योन्यमित्यर्थः । दशाविशेषोऽ-
वस्थाभेदः । अप्राप्तौ परस्परासङ्गमे । वन्दिनः स्तुतिपाठकाः । दशाविशेषा-
नाह—अभिलाष इति । दश प्रकाराः । अत्र पूर्वरागे । कामकृता रतिजन्या
दशाः कामदशाः । स्पृहा अभीष्टप्राप्तीच्छा । अपरिच्छेदो विशेषनिर्धारणा-
भावः । अलक्ष्यवाक् निर्विषयं वचः । शेषं स्मृत्यादिकम् ॥ प्रेमार्द्रा इति ।
प्रेम्णा आर्द्रा निबिडस्पृष्टा । प्रेमान्विता इति यावत् । प्रणयं दृढं स्नेहं
स्पृशन्ति जनयन्ति । परिचयान्मुहुर्मुहुर्दर्शनात् । उद्गाढ उल्बणो यो राग सुर-
तेच्छा तस्योदयो याभ्यस्ताः । मुग्धदृशो नार्याः । चेष्टा नेत्रविक्षेपाङ्गिपाः

  1. स्तुतीत्यादि । 'देवो द्वापरपादैस्तु तद्देवान् च गनन्धरन् । गान्धर्वेणोपगीयानि
    वेतालाः स्युर्वरिष्ठ्यते ॥', 'मन्दमन्दं निनादैश्चेन्मागधैर्मङ्गलध्वनी श्रुता । इति वारी भवे-
    दत्र तदुक्तं शुन्तशीलैस्तु ॥', 'दक्षिणान्मागधं वा न च दृष्ट्वा च जायते । प्रक्षेपः प्रान्ति-
    दृष्टेऽपि न दृश्येतोक्तिकीर्त्यते ।', 'राजन्यतेऽङ्गनामुद्यदेनेनोग्गिते । व्यापारो जायते
    दत्र स उन्मादो निरुच्यते ॥'
    १. 'हृदी' पाठान्तरम् २. 'हृद्या' इति तु युक्तो ३. 'कश्चिन्मृषाप्रलापास्तु' 'उन्माद' इति
    इत्यत्र पाठो न दृश्यते तदिह.