सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 87, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 87

॥ षोडशोऽध्यायः ॥

ऋभुः -

अत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागमादिषु ।
शृण्वन्तु सावधानेन असदेव हि केवलम् ॥ १६.१॥

यत्किञ्चिद् दृश्यते लोके यत्किञ्चिद्भाष्यते सदा ।
यत्किञ्चिद् भुज्यते क्वापि तत्सर्वमसदेव हि ॥ १६.२॥

यद्यत् किञ्चिज्जपं वापि स्नानं वा जलमेव वा ।
आत्मनोऽन्यत् परं यद्यत् असत् सर्वं न संशयः ॥ १६.३॥

चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि ।
आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.४॥

अहन्तायाः परं रूपं इदन्त्यं सत्यमित्यपि ।
आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.५॥

नानात्वमेव रूपत्वं व्यवहारः क्वचित् क्वचित् ।
आत्मीय एव सर्वत्र तत्सर्वमसदेव हि ॥ १६.६॥

तत्त्वभेदं जगद्भेदं सर्वभेदमसत्यकम् ।
इच्छाभेदं जगद्भेदं तत्सर्वमसदेव हि ॥ १६.७॥

द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् ।
अहंभेदमिदंभेदमसदेव हि केवलम् ॥ १६.८॥

स्वप्नभेदं सुप्तिभेदं तुर्यभेदमभेदकम् ।
कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् ।
लिङ्गभेदमिदंभेदमसदेव हि केवलम् ॥ १६.९॥

आत्मभेदमसद्भेदं सद्भेदमसदण्वपि ।
अत्यन्ताभावसद्भेदं असदेव हि केवलम् ॥ १६.१०॥

अस्तिभेदं नास्तिभेदमभेदं भेदविभ्रमः ।
भ्रान्तिभेदं भूतिभेदमसदेव हि केवलम् ॥ १६.११॥

पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् ।
पुण्यभेदं पापभेदं असदेव हि केवलम् ॥ १६.१२॥

सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् ।
ज्ञानाज्ञानमयं सर्वं असदेव हि केवलम् ॥ १६.१३॥