सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 75, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 75

आत्मैवायमयं कोऽपि आत्मैवेदमिदं क्वचित् ।
आत्मैवायमयं लोकः आत्मनोऽन्यन्न किंचन ॥ १३.४४॥

आत्मैवेदमिदं दृश्यं आत्मैवायमयं जनः ।
आत्मैवेदमिदं सर्वं आत्मनोऽन्यन्न किंचन ॥ १३.४५॥

आत्मैवायमयं शंभुः आत्मैवेदमिदं जगत् ।
आत्मैवायमयं ब्रह्म आत्मनोऽन्यन्न किंचन ॥ १३.४६॥

आत्मैवायमयं सूर्य आत्मैवेदमिदं जडं ।
आत्मैवेदमिदं ध्यानं आत्मैवेदमिदं फलं ॥ १३.४७॥

आत्मैवायमयं योगः सर्वमात्ममयं जगत् ।
सर्वमात्ममयं भूतं आत्मनोऽन्यन्न किंचन ॥ १३.४८॥

सर्वमात्ममयं भावि सर्वमात्ममयं गुरुः ।
सर्वमात्ममयं शिष्य आत्मनोऽन्यन्न किंचन ॥ १३.४९॥

सर्वमात्ममयं देवः सर्वमात्ममयं फलं ।
सर्वमात्ममयं लक्ष्यं आत्मनोऽन्यन्न किंचन ॥ १३.५०॥

सर्वमात्ममयं तीर्थं सर्वमात्ममयं स्वयं ।
सर्वमात्ममयं मोक्षं आत्मनोऽन्यन्न किंचन ॥ १३.५१॥

सर्वमात्ममयं कामం सर्वमात्ममयं क्रिया ।
सर्वमात्ममयं क्रोधः आत्मनोऽन्यन्न किंचन ॥ १३.५२॥

सर्वमात्ममयं विद्या सर्वमात्ममयं दिशः ।
सर्वमात्ममयं लोभः आत्मनोऽन्यन्न किंचन ॥ १३.५३॥

सर्वमात्ममयं मोहः सर्वमात्ममयं भयं ।
सर्वमात्ममयं चिंता आत्मनोऽन्यन्न किंचन ॥ १३.५४॥

सर्वमात्ममयं धैर्यं सर्वमात्ममयं ध्रुवं ।
सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किंचन ॥ १३.५५॥

सर्वमात्ममयं बोधं सर्वमात्ममयं दृढं ।
सर्वमात्ममयं मेयं आत्मनोऽन्यन्न किंचन ॥ १३.५६॥

सर्वमात्ममयं गुह्यं सर्वमात्ममयं शुभं ।
सर्वमात्ममयं शुद्धं आत्मनोऽन्यन्न किंचन ॥ १३.५७॥

सर्वमात्ममयं सर्वं सत्यमात्मा सदात्मकः ।
पूर्णमात्मा क्षयं चात्मा परमात्मा परात्परः ॥ १३.५८॥