सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 38, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 38

सर्वभेदप्रभेदो वा सर्वसंकल्पविभ्रमः ।
सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥ ६.१२॥

रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् ।
संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥ ६.१३॥

स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ।
मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥ ६.१४॥

सर्वं मिथ्या जगद्विद्या भूतं भव्यं भवत्तथा ।
नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥ ६.१५॥

चित्तभेदो जगद्भेदः अविद्यायाश्च संभवः ।
अनेककोटिब्रह्माण्डाः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१६॥

लोकत्रयेषु सद्भावो गुणदोषादिजृम्भणम् ।
सर्वदेशिकवारोक्तिः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१७॥

उत्कृष्टं च निकृष्टं च उत्तमं मध्यमं च तत् ।
ओंकारं चाप्यकारं च सर्वं ब्रह्मेति निश्चिनु ॥ ६.१८॥

यद्यज्जगति दृश्येत यद्यज्जगति वीक्ष्यते ।
यद्यज्जगति वर्तेत सर्वं ब्रह्मेति निश्चिनु ॥ ६.१९॥

येन केनाक्षरेणोक्तं येन केनापि संगतम् ।
येन केनापि नीतं तत् सर्वं ब्रह्मेति निश्चिनु ॥ ६.२०॥

येन केनापि गदितं येन केनापि मोदितम् ।
येन केनापि च प्रोक्तं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२१॥

येन केनापि यद्दत्तं येन केनापि यत् कृतम् ।
यत्र कुत्र जलस्नानं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२२॥

यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ।
यद्यत् करोषि सत्येन सर्वं मिथ्येति निश्चिनु ॥ ६.२३॥

इदं सर्वमहं सर्वं सर्वं ब्रह्मेति निश्चिनु ।
यत् किञ्चित् प्रतिभातं च सर्वं मिथ्येति निश्चिनु ॥ ६.२४॥

ऋभुः –

पुनर्वक्ष्ये रहस्यानां रहस्यं परमाद्भुतम् ।
शङ्करेण कुमाराय प्रोक्तं कैलास पर्वते ॥ ६.२५॥