सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 219, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 219

हारं भक्त्या साध्य त्रिभुवनतृणाडम्बरवर-
प्ररूढैर्भाग्यैर्वा न हि खलु स सज्जेत भुवने ॥ ५०.४५॥

न दानैर्योगैर्वा विधिविहितवर्णाश्रममखैः ।
अपारैर्वेदान्तप्रतिवचनवाक्यानुसरणैः ।
न मन्येऽहं स्वान्ते भवभजनभावेन मनसा
मुहुर्लिङ्गं शार्ङ्गं भजति परमानन्दकुहरः ॥ ५०.४६॥

शर्वं परवतनन्दिनीपतिमहानन्दाम्बुधेः पारगा
रागत्यागहृदा विरागपरमा भस्माङ्गरागादराः ।
मारापारशराभिघातरहिता धीरोरुधारारसैः
पारावारमहाघसंसृतिभरं तीर्णाः शिवाभ्यर्चनात् ॥ ५०.४७॥

मार्कण्डेयसुतं पुराऽन्तकभयाद्योऽरक्षदीशो हरः
तत्पादाम्बुजरागरञ्जितमना नाप्नोति किं वा फलं ।
तं मृत्युञ्जयमञ्जसा प्रणमतामोजोजिमध्ये जयं
जेतारोतपराजायो जनिजरारोगैर्विमुक्तिं लभेत् ॥ ५०.४८॥

भूतायां भूतनाथं तृषुमतितिलकाकारभिल्लोत्थशल्यः
धावन् भल्लूकपष्ठे निशि किल सुमहाद्वाप्रुभीत्याऽरुरोह ।
बिल्वं नल्पप्रभं तच्छदुफनुमसज्कृत् पातयामास मूले
निद्रातन्द्रोज्झितोऽसौ मृगगणकलने मूललिङ्गेऽथ शाङ्गे ॥ ५०.४९॥

तेनाभूद्भगवान् गणोत्तमवरो मुक्ताघसङ्घस्तदा
चण्डांशोस्तनयेन पूजितपदः सारूप्यमापेशितुः ।
गङ्गाचन्द्रकलाकपर्दविलसत्पालस्फुलिङ्गोज्ज्वलद्
वालन्यङ्कुकराग्रसङ्गतमहाशूलाहि टङ्कोद्यतः ॥ ५०.५०॥

चैत्रे चित्रैः पातकैर्विप्रमुक्तो वैशाखे वै दुःखशाखाविमुक्तः ।
ज्येष्ठे श्रेष्ठो भवतेषाढमासि पुत्रप्राप्तिः श्रावणे श्रान्तिनाशः ॥ ५०.५१॥

भाद्रे भद्रो भवते चाश्विने वै अश्वप्राप्तिः कार्त्तिके कीर्त्तिलाभः ।
मार्गे मुक्तेर्मार्गमेतल्लभेत पुष्ये पुण्यं माघुके चाघनाशः ॥ ५०.५२॥

फल्गु त्वंहो फाल्गुने मासि
नश्येदीशार्चातो बिल्वपत्रैश्चलिङ्गे ।
एवं तत्तन्मासि पूज्येशलिङ्गं
चित्रैः पापैर्विप्रमुक्तो द्विजेन्द्रः ॥ ५०.५३॥

दूर्वाङ्कुरैरभिनवैः शशिधामचूड-
लिङ्गार्चनेन परिशेषयदङ्कुराणि ।