ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 211, कुल 249 में से
संदर्भ में पढ़ेंमदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणां ।
मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥ 49.11॥
तदर्चनेन संप्राप्तं मया पूर्वं सुदर्शनं ।
सहस्रारं दैत्यहंतृ साक्षात् त्र्यक्षप्रपूजया ॥ 49.12॥
तमाराधय यत्नेन भस्मधारणपूर्वकं ।
अग्निरित्यादिभिर्मन्त्रैस्त्र्यायुषत्रिपुण्ड्रकैः ॥ 49.13॥
रुद्राक्षधारको नित्यं रुद्रपंचाक्षरादरः ।
शिवलिंगं बिल्वपत्रैः पूजयन् ज्ञानवान् भव ॥ 49.14॥
वसन् क्षेत्रे महेशस्य स्नाहि तीर्थे च शांकरे ।
अहं ब्रह्मादयो देवाः पूजय्यैव पिनाकिनः ॥ 49.15॥
बलिनः शिवलिंगस्य पूजया विप्रसत्तम ।
यस्य फाल Public/तलं मेऽद्य त्रिपुण्ड्रपरिचिन्हितं ॥ 49.16॥
ब्रह्मेंद्रदेवमुनिभिस्त्रिपुण्ड्रं भस्मना धृतं ।
पश्य वक्षसि बाह्वोर्ये रुद्राक्षाणां प्रजं शुभां ॥ 49.17॥
पंचाक्षरजपासक्तो रुद्राध्यायपरायणः ।
त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवं ॥ 49.18॥
कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः ।
पूजयत्यनिशं लिंगे तथा ब्रह्मादयः सुराः ॥ 49.19॥
मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः ।
नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥ 49.20॥
ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शंकरार्चनात् ।
तस्मात् त्वमपि भक्त्यैव समाराधय शंकरं ॥ 49.21॥
पशवो विष्णुविधयस्तथान्ये मुनयः सुराः ।
सर्वेषां पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥ 49.22॥
प्रसादजनकं तस्य भस्मधारणमेव हि ।
प्रसादजनकं तस्य मुने रुद्राक्षधारणं ॥ 49.23॥
प्रसादजनकस्तस्य रुद्राध्यायजपः सदा ।
प्रसादजनकस्तस्य पंचाक्षरजपो द्विज ॥ 49.24॥
प्रसादजनकं तस्य शिवलिंगैकपूजनं ।
प्रसादे शांभवे जाते भुक्तिमुक्ती करे स्थिते ॥ 49.25॥