ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 208, कुल 249 में से
संदर्भ में पढ़ेंशांभवा एव वेदेषु निष्ठा नष्टाशुभाः परम् ।
शिवप्रसादसंपन्नो भस्मरुद्राक्षधारकः ॥ ४८.१४॥
रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः ।
स एव वेदवेदान्तश्रवणेऽधिकृतो भवेत् ॥ ४८.१५॥
नान्यपुण्ड्रधरो विप्रः कृत्वापि श्रवणं बहु ।
नैव लभ्येत तज्ज्ञानं प्रसादेन विनेशितुः ॥ ४८.१६॥
प्रसादजनकं शम्भोर्भस्मधारणमेव हि ।
शिवप्रसादहीनानां ज्ञानं नैवोपजायते ॥ ४८.१७॥
प्रसादे सति देवस्य विज्ञानस्फुरणं भवेत् ।
रुद्राध्यायजपिनां तु भस्मधारणपूर्वकम् ॥ ४८.१८॥
प्रसादो जायते शम्भोः पुनरावृत्तिवर्जितः ।
प्रसादे सति देवस्य वेदान्तस्फुरणं भवेत् ॥ ४८.१९॥
तस्यैवाकथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।
पञ्चाक्षरजपादेव पञ्चास्यध्यानपूर्वकम् ॥ ४८.२०॥
तस्यैव भवति ज्ञानं शिवप्रोक्तमिदं ध्रुवम् ।
सर्वं शिवात्मकं भाति जगदेतच्चराचरम् ॥ ४८.२१॥
स प्रसादो महेशस्य विज्ञेयः शाम्भवोत्तमैः ।
शिवलिङ्गार्चनादेव प्रसादः शाम्भवोत्तमे ॥ ४८.२२॥
नियमाद्बिल्वपत्रैश्च भस्मधारणपूर्वकम् ।
प्रसादो जायते शम्भोः साक्षाज्ज्ञानप्रकाशकः ॥ ४८.२३॥
शिवक्षेत्रनिवासेन ज्ञानं सम्यक् दृढं भवेत् ।
शिवक्षेत्रनिवासी तु भस्मधार्यधिकारवान् ॥ ४८.२४॥
नक्ताशनार्चनादेव प्रीयेत भगवान् भवः ।
प्रदोषपूजनं शम्भोः प्रसादजनकं परम् ॥ ४८.२५॥
सोमवारे निशीथेषु पूजनं प्रियमीशितुः ।
भूतायां भूतनाथस्य पूजनं परमं प्रियम् ॥ ४८.२६॥
शिवशब्दोच्चारणं च प्रसादजनकं महत् ।
ज्ञानाङ्गसाधनेष्वेवं शिवभक्तार्चनं महत् ॥ ४८.२७॥
भक्तानामर्चनादेव शिवः प्रीतो भविष्यति ।
इत्येतत्तं समासेन ज्ञानाङ्गं कथितं मया ।