ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 196, कुल 249 में से
संदर्भ में पढ़ेंत्वमेव सद्गुरुर्ब्रह्म न हि सद्गुरुरन्यतः ।
आत्मैव सद्गुरुर्ब्रह्म शिष्यो ह्यात्मैव सद्गुरुः ॥ ४३.२९॥
गुरुः प्रकल्पते शिष्यो गुरुहीनो न शिष्यकः ।
शिष्ये सति गुरुः कल्प्यः शिष्याभावे गुरुर्न हि ॥ ४३.३०॥
गुरुशिष्यविहीनात्मा सर्वत्र स्वयमेव हि ।
चिन्मात्रात्मनि कल्पोऽहं चिन्मात्रात्मा न चापरः ॥ ४३.३१॥
चिन्मात्रात्माहमेवैको नान्यत् किञ्चिन्न विद्यते ।
सर्वस्थितोऽहं सततं नान्यं पश्यामि सद्गुरोः ॥ ४३.३२॥
नान्यत् पश्यामि चित्तेन नान्यत् पश्यामि किञ्चन ।
सर्वाभावान्न पश्यामि सर्वं चेद् दृश्यतां पृथक् ॥ ४३.३३॥
एवं ब्रह्म प्रपश्यामि नान्यदस्तीति सर्वदा ।
अहो भेदं प्रकुपितं अहो माया न विद्यते ॥ ४३.३४॥
अहो सद्गुरुमाहात्म्यमहो ब्रह्मसुखं महत् ।
अहो विज्ञानमाहात्म्यमहो सज्जनवैभवः ॥ ४३.३५॥
अहो मोहविनाशश्च अहो पश्यामि सत्सुखं ।
अहो चित्तं न पश्यामि अहो सर्वं न किञ्चन ॥ ४३.३६॥
अहमेव हि नान्यत्र अहमानन्द एव हि ।
ममान्तःकरणे यद्वन्निश्चितं भवदीरितं ॥ ४३.३७॥
सर्वं ब्रह्म परं ब्रह्म न किञ्चिदन्यदैवतं ।
एवं पश्यामि सततं नान्यत् पश्यामि सद्गुरो ॥ ४३.३८॥
एवं निश्चित्य तिष्ठामि स्वस्वरूपे ममात्मनि ॥ ४३.३९॥
अगाधवेदवाक्यतो न चाधिभेषजं भवे-
दुमाधवाङ्घ्रिपङ्कजस्मृतिः प्रबोधमोक्षदा ।
प्रबुद्धभेदवासनानिरुद्धहृत्तमोभिदे
महोरुजाशुवैद्यमीश्वरं हृदम्बुजे भजे ॥ ४३.४०॥
धृतत्वदर्धकामदेह दुग्धसन्निभं प्रमुग्धसामि ।
सोमधारिणं श्रुतीड्यगद्यसंस्तुतं त्वभेद्यमेकशङ्करं ॥ ४३.४१॥
वरः कङ्कः काको भवदुभयजातेषु नियतं
महोशङ्कातङ्कैर्विधिविहितशान्तेन मनसा ।