ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 164, कुल 249 में से
संदर्भ में पढ़ें॥ चतुस्त्रिंशोऽध्यायः ॥
ऋभुः -
शृणुष्व ब्रह्म विज्ञानमद्भुतं त्वतिदुर्लभम् ।
एकैकश्रवणेनैव कैवल्यं परमश्नुते ॥ ३४.१॥
सत्यं सत्यं जगन्नास्ति संकल्पकलनादिकम् ।
नित्यानन्दमयं ब्रह्मविज्ञानं सर्वदा स्वयं ॥ ३४.२॥
आनन्दमव्ययं शान्तमेकरूपमनामयम् ।
चित्प्रपञ्चं नैवास्ति नास्ति कार्यं च तत्त्वतः ॥ ३४.३॥
प्रपञ्चभावना नास्ति दृश्यरूपं न किञ्चन ।
असत्यरूपं सङ्कल्पं तत्कार्यं च जगन्न हि ॥ ३४.४॥
सर्वमित्येव नास्त्येव कालमित्येवमीश्वरः ।
वन्ध्याकुमारे भीतिश्च तदधीनमिदं जगत् ॥ ३४.५॥
गन्धर्वनगरे शृङ्गे मदग्रे दृश्यते जगत् ।
मृगतृष्णाजलं पीत्वा तृप्तिश्चेदस्तिदं जगत् ॥ ३४.६॥
नगे शृङ्गे न बाणेन नष्टं पुरुषमस्तिदम् ।
गन्धर्वनगरे सत्ये जगद्भवतु सर्वदा ॥ ३४.७॥
गगने नीलमासिन्धौ जगत् सत्यं भविष्यति ।
शुक्तिकारजतं सत्यं भूषणं चिज्जगद्भवेत् ॥ ३४.८॥
रज्जुसर्पेण नष्टश्चेत् नरो भवति संसृतिः ।
जातिरूपेण बाणेन ज्वालाग्नौ नाशिते सति ॥ ३४.९॥
रम्भास्तम्भेन काष्ठेन पाकसिद्धिर्जगद्भवेत् ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयं ॥ ३४.१०॥
सद्यः कुमारिकारूपैः पाके सिद्धे जगद्भवेत् ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयं ॥ ३४.११॥
मित्याटव्यां वायसान्नं अस्ति चेज्जगदुद्भवम् ।
मूला रोपणमन्त्रस्य प्रीतिश्चेद्भाषणं जगत् ॥ ३४.१२॥
मासात् पूर्वं मृतो मर्त्य आगतश्चेज्जगद् भवेत् ।
तक्रं क्षीरस्वरूपं चेत् किञ्चित् किञ्चिज्जगद्भवेत् ॥ ३४.१३॥