सामग्री पर जाएँ
सर्वकोश
ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

पृष्ठ 160, कुल 249 में से

संदर्भ में पढ़ें
पृष्ठ 160

॥ त्रयस्त्रिंशोऽध्यायः ॥

ऋभुः -

वक्ष्ये परं ब्रह्ममात्रमनुत्पन्नमिदं जगत् ।
सत्सदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३.१॥

आत्मैवाहं परं ब्रह्म नान्यत् संसारदृष्टयः ।
सत्सदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३.२॥

सत्सदानन्दमात्रोऽहं चित्सदानन्दविग्रहम् ।
अहमेवाहमेवैकमहमेव परात् परः ॥ ३३.३॥

सच्चिदानन्दमेवैकमहं ब्रह्मैव केवलम् ।
अहमस्मि सदा भामि एवं रूपं कुतोऽप्यसत् ॥ ३३.४॥

त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ।
चिदाकारं चिदाकाशं चिदेव परमं सुखम् ॥ ३३.५॥

आत्मैवाहमसन्न्याहं कूटस्थोऽहं गुरुः परः ।
कालं नास्ति जगन्नास्ति कल्मषत्यानुभावनम् ॥ ३३.६॥

अहमेव परं ब्रह्म अहमेव सदा शिवः ।
शुद्धचैतन्य एवाहं शुद्धसत्यानुभावनः ॥ ३३.७॥

अद्वयानन्दमात्रोऽहमव्ययोऽहं महानहम् ।
सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव निर्मलः ॥ ३३.८॥

सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव चेतनः ।
सर्वप्रकाशरूपोऽहं सर्वप्रियमनो ह्यहम् ॥ ३३.९॥

एकान्तैकप्रकाशोऽहं सिद्धासिद्धिविवर्जितः ।
सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणम् ॥ ३३.१०॥

शमो विचारसन्तोषरूपोऽहमिति निश्चयः ।
परमात्मा परं ज्योतिः परं परविवर्जितः ॥ ३३.११॥

परिपूर्णस्वरूपोऽहं परमात्माऽहमच्युतः ।
सर्ववेदस्वरूपोऽहं सर्वशास्त्रस्य निर्णयः ॥ ३३.१२॥

लोकानन्दस्वरूपोऽहं मुख्यानन्दस्य निर्णयः ।
सर्वं ब्रह्मैव भूरास्ति सर्वं ब्रह्मैव कारणम् ॥ ३३.१३॥